मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 388, कुल 672 में से
संदर्भ में पढ़ें346 मानमेयरहस्यश्लोकवार्तिके प्रत्यक्षं च परोक्षं चानुभवद्वितयं परे । वैभाषिकं मतं त्वेतद्वैशेषिकमपि स्मृतम् ॥ प्रत्यक्षं च परोक्षं चापरोक्षमिति च त्रिधा । मानं विभज्य स्वात्मानमपरोक्षं विदुः परे ॥ कल्पनापोढमभ्रान्तं प्रत्यक्षं तच्चतुर्विधम् । आद्यमिन्द्रियजं तादृङ्मनोजातं द्वितीयकम् ॥ इन्द्रियोत्थं निर्विकल्पं मन इत्युच्यते हि तैः । अनन्तरप्रत्ययोऽपि संपूर्वस्स हि कथ्यते ॥ आत्मसंवेदनं चित्तचैत्तानां स्यात्तृतीयकम् । भावनाबलजं योगिज्ञानं तुर्यं प्रकीर्तितम् ॥ इति वैभाषिकैकान्तः न्यायबिन्दादिषु स्थितः । बाह्यमाभ्यन्तरं चेति द्विधा तदिति तार्किकाः ॥ लौकिकं चालौकिकमित्युभयं द्विविधं मतम् । लौकिकं षड्विधं ज्ञेयं त्रिविधं स्यादलौकिकम् ॥ 3 तत्प्रत्यक्षं निर्विकल्पं सविकल्पमिति द्विधा । अलौकिकं स्मृतिर्वाऽनुमानं वा वेदविन्मतम् ॥ मनसा युज्यते ह्यात्माऽथेन्द्रियेण मनस्तथा । अर्थेन चेन्द्रियं तस्मात्प्रत्यक्षं न्यायविन्मतम् ॥ सामान्यं वा विशेषो वा किं स्यात्प्रत्यक्षगोचरः । इत्यत्रापि विकल्पोऽस्ति प्रसङ्गात्किंचिदुच्यते ॥