मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 395, कुल 672 में से
संदर्भ में पढ़ेंविकल्पवादः 35 इत्येवं कल्पनावादिविशेषैकार्थवादिनः । विबुधाः प्रत्यवस्थातुं नानावादान्वितन्वते ॥ शब्दासंस्पर्शवादापनोदायैव हि शाब्दिकाः । शब्दस्य ज्ञानमात्रे तु भानमिच्छन्त्यनेकधा ॥ यथा विषयभेदेन प्रतीतिर्भिद्यते तथा । उपायभेदात्तद्भेदः सर्वानुभवसाक्षिकः ॥ समवायो हि नाध्यक्षः वैशेषिकमते स्थितः । तथापि तन्तुष्वेवायं पट इत्यादिबुद्धिकृत् ॥ तथैव च चिराक्षिप्रदूरासन्नादिबुद्धिकृत् । कालदेशविशेषः स्यात् सहकारिनियन्त्रितः ॥ निर्विकल्पकमध्यक्षं सविकल्पकमेव तत् । उभयात्मकमित्येतत् विलक्षणमितीतरे ॥ सौगतः प्रथमः पक्षः शाब्दिकस्तदनन्तरः । मैमांसकः तृतीयः स्यात् तुर्यो नैयायिकस्स्मृत सामग्र्यास्तु प्रमाणत्वे प्रमा फलमितीष्यते । प्रमायास्तु प्रमाणत्वे फलं हानादिबुद्धयः ॥ प्रमाणसामान्यवादे विस्तरोऽस्य कृतोऽधुना । विशेषांशा हि सूच्यन्ते विस्तरः तैर्थिकैः कृतः 5 न कदाचित्क्वचिद्दृष्टं निर्व्यापारं तु कारकम् । इन्द्रियाणां कारकत्वात्सन्निकर्षपरिग्रहः ॥ M.R. 45