मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 394, कुल 672 में से
संदर्भ में पढ़ें352 मानमेयरहस्यश्लोकवार्तिके ३ प्रभाकरगुरूणां तु विशेषोऽत्रावधार्यताम् । पूर्वानुभूतसंस्कारसचिवं सविकल्पकम् ॥ केवलेन्द्रियसंसर्गजनितं निर्विकल्पकम् । यदैकमेव वस्तु स्यात् प्रत्यभिज्ञेति सोच्यते ॥ सजातीयं यदा तत्स्यात्सविकल्पकमुच्यते । तन्निर्विकल्पं प्रथमपिण्डग्रहणमुच्यते ॥ सविकल्पं द्वितीयादिग्रहणं त्विति निर्णयः । अनुवृत्तिर्नाम जातेर्नानाव्यक्तिसमन्वयः ॥ तदतद्गोचरत्वाभ्यां विकल्पेऽस्तित्वनास्तिते । निरीहादिस्वन इव निर्विकल्पस्वनो मतः ॥ योगेऽपि निर्विकल्पाख्यसमाधिर्योऽनुशिष्यते । अर्थमात्रविनिर्भासं स्वरूपविकलं यथा ॥ तत्रापि निर्विशेषार्थग्रहणं नोपदिश्यते । किंतु गीर्णस्वस्वरूपा विशिष्टार्थैव सा मतिः ॥ ४ परोक्षाणां प्रमाणानां संसर्गांशे प्रमाणता । प्रत्यक्षस्य प्रमाणस्य त्रिष्वप्यस्ति प्रमाणता ॥ कालदेशपरिच्छिन्नं प्रत्यक्षमितरत्पुनः । सार्वदेशं सार्वकालं तत् त्रिकालादिगोचरम् ॥ शब्दसंसर्गयोग्यार्थप्रतिभासाः विकल्पनाः । स्मृतिव्यवहिताः तस्मादनर्थजनिता मताः ॥