मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 397, कुल 672 में से
संदर्भ में पढ़ेंविकल्पवादः 35: 6 निर्विकल्पस्य विषयं बौद्धाः प्राहुस्स्वलक्षणम् । महासामान्यमस्येति सदद्वैतविदो विदुः ॥ वाग्रूपमपरे तत्त्वं प्रमेयं शाब्दिका विदुः । केचिद्गुणादिशबलं मन्यन्ते कपिलादयः ॥ केचिच्छकलितं वस्तु विदुः नैयायिकादयः । विशिष्टमेव विषयं प्राहुः प्राभाकरादयः ॥ प्रत्यक्षविषयेऽप्येताः चित्रा विप्रतिपत्तयः । परोक्षार्थे हि विमतिः प्रत्यक्षेणोपशाम्यति ॥ प्रत्यक्षे हि समुत्पन्ना विमतिः केन वार्यते । इदं भाति न भातीति संविद्विप्रतिपत्तिषु ॥ परप्रत्यायने पुंसां शरणं शपथोक्तयः । प्रत्यक्षलक्षणं चापि तादृशार्थानुगुण्यतः ॥ 7 विकल्प्य कथितं तत्तु संग्रहादिह कथ्यते । कल्पनापोढमभ्रान्तं प्रत्यक्षमिति सौगताः ॥ सत्संप्रयोगे पुरुषस्येति जैमिनिलक्षणम् । सन्निकृष्टार्थविज्ञानमिति वृत्तिकृतां मतम् ॥ यत्त्विन्द्रियार्थसंबन्धोत्पन्नमव्यभिचारि च । तत्प्रत्यक्षमिति प्रोक्तमक्षपादेन लक्षणम् ॥ साक्षात्प्रतीतिः प्रत्यक्षमिति प्राभाकरा विदुः । अर्थाकृत्या परिणतेन्द्रियवृत्त्यनुपातिनी ॥