मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
विकल्पवादः 35: 6 निर्विकल्पस्य विषयं बौद्धाः प्राहुस्स्वलक्षणम् । महासामान्यमस्येति सदद्वैतविदो विदुः ॥ वाग्रूपमपरे तत्त्वं प्रमेयं शाब्दिका विदुः । केचिद्गुणादिशबलं मन्यन्ते कपिलादयः ॥ केचिच्छकलितं वस्तु विदुः नैयायिकादयः । विशिष्टमेव विषयं प्राहुः प्राभाकरादयः ॥ प्रत्यक्षविषयेऽप्येताः चित्रा विप्रतिपत्तयः । परोक्षार्थे हि विमतिः प्रत्यक्षेणोपशाम्यति ॥ प्रत्यक्षे हि समुत्पन्ना विमतिः केन वार्यते । इदं भाति न भातीति संविद्विप्रतिपत्तिषु ॥ परप्रत्यायने पुंसां शरणं शपथोक्तयः । प्रत्यक्षलक्षणं चापि तादृशार्थानुगुण्यतः ॥ 7 विकल्प्य कथितं तत्तु संग्रहादिह कथ्यते । कल्पनापोढमभ्रान्तं प्रत्यक्षमिति सौगताः ॥ सत्संप्रयोगे पुरुषस्येति जैमिनिलक्षणम् । सन्निकृष्टार्थविज्ञानमिति वृत्तिकृतां मतम् ॥ यत्त्विन्द्रियार्थसंबन्धोत्पन्नमव्यभिचारि च । तत्प्रत्यक्षमिति प्रोक्तमक्षपादेन लक्षणम् ॥ साक्षात्प्रतीतिः प्रत्यक्षमिति प्राभाकरा विदुः । अर्थाकृत्या परिणतेन्द्रियवृत्त्यनुपातिनी ॥
356 मानमेयरहस्यश्लोकवार्तिके
बुद्धिवृत्तिः चितिच्छायामापन्नाऽध्यक्षमिष्यते । पातञ्जलैः कापिलैश्च तथा तन्मार्गगामिभिः ॥ प्रत्यक्षलक्षणं प्राहुः स्पष्टतां पुनरार्हताः । अस्पष्टमनुमानादि सद्विशेषाप्रकाशनात् ॥ चार्वाकोऽशक्यकरणं मेने मानस्य लक्षणम् । तथैव संख्यानियमं तत्रोदाहरणं त्विदम् ॥ वक्राङ्गुलिः प्रविरलाङ्गुलिरेष करस्त्विति । जानाति मीलिताक्षोऽपि तमस्यपि पुमानयम् । निशि दीपशिखा दूराद्दृष्टा कुर्यात्प्रभामतिम् । अनुवातं दूरगते गन्धे बुद्धिः प्रजायते ॥ शब्दादिविषया बुद्धिः विचित्रा सर्वसम्मता । तस्मादनुगमोऽशक्यकरणः हृदयंगमः ॥ सर्वेष्वपि च सिद्धान्तेष्विन्द्रियं क्रियते पुरः । ततस्त्वर्थानुगुण्येन परिष्कारो विजृम्भते ॥ 8 अथात्र सांख्यप्रत्यक्षे विशेषः श्लोकवार्तिके । शब्दनित्यत्वाधिकृतावक्षिप्तस्सोऽभिधीयते ॥ विषयः प्रथमं स्वीयेन्द्रिये ह्यालोचनात्मकम् । स्वाकारं वृत्तिपर्यायं विकारं कुरुते स्वयम् ॥ सा च वृत्तिस्समागत्य देशं तं विषयस्य च । प्रकाशं विषयाकारं आधत्ते महदात्मनि ॥
बुद्धावध्यवसायाख्यमेतस्मिन्नाहिते सति । तस्यां बुद्धौ च चैतन्यं यदाऽभिव्यज्यते तदा ॥ प्रत्यक्षमिति सिद्धान्तः स च नैवोपपद्यते । कथं विकाराधानं स्यात् असंबद्धेन चेन्द्रिये ॥ प्राप्तिस्सर्वगतत्वाच्चेत् तुल्या दूरगतेष्वपि । विक्रियाऽविक्रिये तत्र सर्वैस्स्यातां न भेदतः ॥ तदौपनिषदाः प्रायस्सर्वे नैयायिकाध्वगाः । तत्रापि सन्निकर्षादिः स्वसामग्रीनिबन्धनः ॥ अदृष्टानियमाद्दृष्टनियमे लाघवं मतम् । मनोवैभवसिद्धान्ते विपरीतं बलाबलम् ॥ 9 अथ चाद्वैतसिद्धान्ते प्रायस्सांख्यमतानुगे । प्रत्यक्षविषये किंचिद्विशेषांशोऽत्र सूच्यते ॥ चैतन्यमेव प्रत्यक्षप्रमेति श्रुतिसम्मतम् । तदनाद्यपि हृद्वृत्तिविशिष्टं चादिमन्मतम् ॥ संसर्गानवगाहेतज्ज्ञानं स्यान्निर्विकल्पकम् । सोऽयं घटः तत्त्वमसीत्यादिवाक्यादपीष्यते ॥ संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥ वृत्त्यवच्छिन्नचैतन्येऽर्थावच्छिन्नचिदेकता । ज्ञानस्याध्यक्षत्वमिति नव्यानामिह निर्णयः ॥
358 मानमेयरहस्यश्लोकवार्तिके
चैतन्याभिव्यञ्जकत्वं विषयस्यापरोक्षता । अन्तःकरणसम्बन्धादस्वच्छे स्वच्छता भवेत् ॥ प्रमात्रभिन्नत्वमिति परेषां तत्र निर्णयः । प्रमातृसत्तातिरिक्तसत्ताशून्यत्वलक्षणम् ॥ अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥
(73) प्रतिबिम्बवादः
1 प्रतिबिम्बविचारोऽस्ति यः पुनश्श्लोकवार्तिके । प्रसङ्गात्तस्य सारांशे तज्जिज्ञासुकृते यते ॥ बिम्बान्न प्रतिबिम्बानां भेदः नापि परस्परम् । अबाधितप्रत्यभिज्ञा प्रमाणं सार्वलौकिकी ॥ अत्र केन निमित्तेन प्रतिपात्रं पृथक्पृथक् । भिन्नानि प्रतिबिम्बानि ज्ञायन्ते युगपत् नरैः ॥ अत्रोच्यते यदा चक्षुः प्रतिस्रोतः प्रवर्तितम् । स्वदेश एव गृह्णाति सवितारमनेकधा ॥ ईषन्निमीलितेऽङ्गुल्या यथा चक्षुषि दृश्यते । पृथगेकोऽपि भिन्नत्वात् चक्षुर्वृत्तेः तथैव नः ॥ 2 ये त्वत्र प्रतिबिम्बानामुत्पत्तिं प्राहुरार्हताः । तेषामभिप्राय एषः स्थूलदृष्टिपरिष्कृतः ॥
अनुमानाक्षेपः 359 स एव चेत्प्रतीयेत कस्मान्नोपरि दृश्यते । कूपादिषु कुतोऽधस्तात् प्रतिबिम्बेक्षणं भवेत् ॥ प्राङ्मुखो दर्पणं पश्यन् स्याच्चेत्प्रत्यङ्मुखः कथम् । तत्र प्रति ब्रुवन्त्यन्ये तेषामेषा परिष्क्रिया ॥ देहप्रदेशे पुंसस्स्यात् चक्षुः ज्ञानस्य कारणम् । तेन देहाभिमुख्येन बुद्ध्यमानोऽवबुद्ध्यते ॥ अप्सूर्यदर्शिना नित्यं चक्षुः द्वेधा प्रवर्तते । एकमूर्ध्वमधस्ताच्च तत्रोर्ध्वांशप्रकाशितम् ॥ शरीरस्यानृजुस्थत्वात् नात्मा सूर्यं प्रपद्यते । ऊर्ध्ववृत्त्यर्पितं बिम्बं अवाग्वृत्त्या तु बुद्ध्यते ॥ ऊर्ध्ववृत्तेस्तदेकत्वात् अवागिव च मन्यते । अधस्तादेव तेनार्कः सान्तरालः प्रतीयते ॥ एवं प्राग्भूतया वृत्त्या प्रत्यग्वृत्तिसमर्पितम् । बुद्ध्यमानो मुखं भ्रान्त्या प्रत्यगित्यवगच्छति ॥ तेनानुभवसिद्धेन पथा स्यादन्यथा गतिः । प्रतिबिम्बेन बिम्बस्यानुमानं क्वचिदभ्यधुः ॥ (74) अनुमानाक्षेपः. 1 अथानुमानप्रमाणविकल्पः महती कथा । तथाऽपि शक्यसंक्षेपा स्यादित्यत्र प्रयत्यते ॥
360 मानमेयरहस्यश्लोकवार्तिके विशेषेऽनुगमाभावः सामान्ये सिद्धसाधनम् । अनुमाभङ्गपङ्केऽस्मिन् निमग्ना वादिदन्तिनः ॥ विशेषेऽनुगमाभावात्सामान्ये सिद्धसाधनात् । तद्द्वयोऽनुपपन्नत्वादनुमानकथा कुतः ॥ व्याप्तिरेवानुमानस्य जीवातुस्सा च सर्वथा । न संभवति संबन्धग्रहस्यानुपपत्तितः ॥ अन्वयव्यतिरेकाभ्यां नाविनाभावनिश्चयः । त्रैकालिकानां वस्तूनामानन्त्यादतिशङ्कनात् ॥ अतएवेहानुमानशब्दः प्रायेण लौकिकैः । प्रयुज्यते संशयार्थः परोक्षं संशयात्मकम् ॥ साहचर्ये च संबन्धे विस्रम्भ इति मुग्धता । शतकृत्वोऽपि तद्दृष्टौ व्यभिचारस्य संभवात् ॥ देशकालदशाभेदविचित्रात्मसु वस्तुषु । अविनाभावनियमः न संभवति कुत्रचित् ॥ 2 भवन्नप्यविनाभावः परिच्छेत्तुं न शक्यते । जगत्त्रयगताशेषपदार्थालोचनाद्विना ॥ ये तु प्रत्यक्षतो विश्वं प्रपश्यन्ति महाजनाः । किं दिव्यचक्षुषामेषां अनुमानप्रयोजनम् ॥ सामान्यद्वारकोऽप्यस्ति नाविनाभावनिश्चयः । वास्तवं तु न सामान्यं नाम किंचन विद्यते ॥
अनुमानाक्षेपः 361 बहुकृत्वोऽपि वस्त्वात्मा तथेति परिनिश्चितः । देशकालादिभेदेन दृश्यते पुनरन्यथा ॥ भूयो दृष्टौ च धूमोऽग्निसहचारीति गम्यताम् । अनग्नौ तु स नास्तीति न भूयोदर्शनादृतेः ॥ गत्वागत्वा च तान् देशान् यद्यर्थो नोपलभ्यते । ततोऽन्यकारणाभावादसन्नित्यवगम्यते ॥ दर्शनादर्शनाभ्यां हि नियमग्रहणं यदि । तदप्यसदनग्नौ हि धूमस्येष्टमदर्शनम् ॥ अनग्निश्च कियान् प्रायो जगत् ज्वलनवर्जितम् । तत्र धूमस्य नास्तित्वं नैव पश्यन्त्ययोगिनः ॥ तदेवं नियमाभावात् सति वा ज्ञप्त्यसंभवात् । अनुमानप्रमाणत्वदुराशा प्रतिमुच्यताम् ॥ साध्यानुमितिवेलायां नचास्ति नियमग्रहः । नियमग्रहकाले च न साध्यमनुमीयते ॥ ३ निरुपाधिकसंबन्धो व्याप्तिरित्यभिधीयते । साध्येन यस्समं व्याप्तोऽव्यापकः साधनस्य यः ॥ स उपाधिरिति प्रोक्तः तत्र चात्माश्रयो ध्रुवः । अतो व्याप्तिपरिष्कारः शतशः क्रियते बुधैः ॥ ४ धर्मे सिषाधयिषिते न हेतोः पक्षधर्मता । धूमस्य वह्नयधर्मत्वात्, साध्यं धर्मी यदीष्यते ॥ M.R. 46
62 मानमेयरहस्यश्लोकवार्तिके न हेतोरन्वयस्तत्र व्यतिरेकोऽपि बाधितः । द्वये तु साध्ये द्वयमप्यसिद्धं स्यादसंशयम् ॥ विशिष्टस्य तु साध्यत्वे न प्राक्तद्धर्मताग्रहः । अतश्च पक्षधर्मत्वं केचिन्नेच्छन्ति सूरयः ॥ ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्मीभिधीयते । व्याप्तिकाले भवेद्धर्मः साध्यसिद्धौ पुनर्द्वयम् ॥ 5 अनुमानप्रयोगोऽपि चादौ कर्तुं न शक्यते । मिथोविरुद्धाङ्गीकारप्रचुरौ वादिनाविह ॥ शब्दो द्रव्यं वेदविदां गुणो न्यायविदां मतः । पञ्चभूतगुणोऽन्येषां परेषां नाभसो गुणः ॥ वृक्षादिशब्दाः स्फोटस्य विवर्त इति शाब्दिकाः । गुणद्रव्यविभागं च केचिन्नेच्छन्ति पण्डिताः ॥ एवमेव हि सर्वं च वस्तु तैस्तैर्विकल्प्यते । कः पक्षः किंचवा साध्यं को हेतुः द्वयसम्मतः ॥ सर्वत्रान्यतरासिद्धेरनुमानकथा वृथा । सामान्येन प्रयोगस्तु केवलं कण्ठशोषकृत् ॥ 6 व्यवहारोऽध्यक्षशक्त्या कृतार्थो ह्यानुमानिकः । इन्द्रियं धूमसंयुक्तं वह्निं गमयति स्फुटम् ॥ व्याप्तिश्च पक्षधर्मत्वं स्यातां तत्सहकारिणी । तथैवापमितिश्शाब्दी सर्वा प्रत्यक्षमिष्यते ॥
अनुमानसमर्थनवादः 36 सहकारिसनाथं चेत् विचित्रं करणं भवेत् । अनागतादिलिङ्गांशे सयूथ्यकलहोऽस्ति हि ॥ अत एवानुमानानामपश्यन्तः प्रमाणताम् । तद्विस्रम्भनिषेधार्थमिदमाहुर्मनीषिणः ॥ हस्तस्पर्शादिनाऽन्धेन विषमे पथि धावता । अनुमानप्रधानेन विनिपातो न दुर्लभः ॥ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ 7 द्विविधं ह्यनुमानं स्यादिति प्राहुस्सुशिक्षिताः । यथोत्पन्नप्रतीत्येवं तथोत्पाद्यप्रतीति च ॥ तत्र धूमानुमानादेः प्रामाण्यमुपगम्यते । यतश्च साध्यं बुद्ध्यन्ते पुरुषाः कोमलाशयाः ॥ यत्त्वात्मेश्वरसर्वज्ञपरलोकादिगोचरम् । अनुमानं न तस्येष्टं प्रामाण्यं तत्त्वदर्शिभिः ॥ तस्माद्विदुर्वेदविदः धर्मब्रह्मादिगोचरम् । अनुमानं नोर्जितं स्यादिति शब्दं विधान्तरम् ॥ (75) अनुमानसमर्थनवादः. 1 अत्रोच्यते न्यायविद्भिर्युक्तिचिन्ताविशारदैः । तानेवानुसरद्भिश्च सर्वैर्दार्शनिकैः परैः ॥
अबलाबालगोपालहालिकप्रमुखा अपि । बुद्ध्यन्ते नियतादर्थादर्थान्तरमसंशयम् ॥ अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा । लोकयात्रेति लोकास्स्युः चित्रिता इव निश्चलाः॥ २ अत्रानुमानप्रामाण्यवादिनां वाक्यसंग्रहः । आदौ सौगतसिद्धान्तवचनं त्ववधार्यताम् ॥ अनुमानं ह्यर्थदृक्स्यात् या च लिङ्गात्त्रिलक्षणात् इति दिङ्नागकथितं लक्षणं त्वित्यनूदितम् ॥ कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥ कार्यकारणभावो हि प्रत्यक्षेणावगम्यते । तदुत्पत्त्याख्यसंबन्धादविनाभावनिश्चयः ॥ सहभावित्वमथवा क्रमभावित्वमेववा । कार्यकारणभावस्स्यान्नियमो नात्र गर्भितः ॥ यथा धूमज्वलनयोः सुबीजाङ्कुरयोरपि । भवेद्यद्यपि चाशङ्का पुरुषस्य विपश्चितः ॥ तदेवाशङ्क्यते लोके यस्य शङ्का न बाधते । स्वप्रवृत्त्यादिकं हेतुफलभावनिबन्धनम् ॥ तादात्म्यनिश्चयेनापि क्वचित्तादृशनिश्चयः । वृक्षशिंशपयोरेषः सामानाधिकरण्यतः ॥
अनुमानसमर्थनवादः ३६. यत्र चात्यन्तभेदोऽस्ति गवाश्वादौ न तत्र हि । सामानाधिकरण्यं, तत् युगपन्न प्रयुज्यते ॥ अत्यन्ताभेदसत्त्वेन घटकुम्भादिवस्तुषु । सह प्रयोगो नैवास्ति नात्र तादात्म्यमिष्यते ॥ वृक्षोऽयं शिंशपेत्येवं प्रयोगो धीमतामपि । सामानाधिकरण्यं स्यात्तत्र तादात्म्यलक्षणम् ॥ वृक्षत्वं यद्यतिपतेत् शिंशपा कुत्रचित्तदा । स्वात्मानमेव संजह्यात् विपक्षे बाधकं न्विदम् ॥ तदुत्पत्तिः तदात्मत्वं अविनाभावबोधकम् । तत्कार्यं कारणं चात्मा स्वात्मानं साधयिष्यतः ॥ अनुमानं न प्रमाणमित्येवं चेत्प्रयुज्यते । एकाकिनी प्रतिज्ञा हि प्रतिज्ञातं न साधयेत् ॥ यदि च त्वाच्छिरस्कस्य प्रयोगः कस्यचित् तदा । स्वोक्तेरेव विरोधस्स्यात् माता वन्ध्या ममेतिवत् ॥ प्रमाणं च तदाभास सजातीयत्वहेतुना । ब्रुवन् स्वभावानुमानं स्वीकरोति भवानपि ॥ परकीयः संशयादिः ज्ञायते वचनाद्यदि । भवता स्वीकृतं तत्रानुमानं कार्यलिङ्गकम् ॥ तथैवानुपलब्ध्याऽपि कंचिदर्थं निषेधता । लिङ्गं ह्यनुपलब्ध्याख्यमगत्या स्वीकृतं भवेत् ॥
366 मानमेयरहस्यश्लोकवार्त्तिके अत्रायं संग्रहश्लोकः तदुक्तः परिपठ्यते । प्रमाणान्तरसामान्यस्थितेरन्यधियां गतेः ॥ प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् । प्रतिषेधः स्वभावान्तर्नीतोऽभावे निरूप्यते ॥ कृत्तिकोदयतः क्वापि रोहिण्युदयनिश्चयः । तत्कोष्ठगत्यनुविहितान्वयव्यतिरेकतः ॥ 3 द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥ बुद्ध्यारूढेनैव धर्मधर्मिभावे न कल्पितम् । अनुमानं नैव बहिसदसत्त्वमपेक्षते ॥ निरुपप्लवभूतार्थस्वभावस्य विपर्ययैः । न बाधोऽयत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥ यतश्च सविकल्पस्य प्रत्यक्षत्वं न चेष्यते । न तस्मादनुमानादेरुत्पत्तिः परमार्थतः ॥ 4 न्यायरत्नाकरकृतामनूक्तिरवधार्यताम् । अनुमानं नैवमानमस्माकं परमार्थतः ॥ अवस्तुभूतसामान्यविषयत्वात्तथाऽपि च । तत्परंपरया वस्तुप्रभवं मानमिष्यते ॥ वह्निस्वलक्षणाद्धूमस्वलक्षणसमुद्भवः । ततश्च धूमप्रत्यक्षं ततो धूमविकल्पना ॥
अनुमानसमर्थनवादः 36 अनुमानं ततश्चं स्यात्तद्वस्तुप्रभवं ततः । वन्हेस्तु प्रतिबद्वस्य प्रतिलम्भनमुच्यते ॥ यद्वाष्पविषयाद्धूमविकल्पादुपजायते । वह्निज्ञानं, तन्न परंपरया प्रतिबध्यते ॥ वह्निनेति, न मानं तत् आभास इति गीयते । प्रतिबन्धपदार्थोऽपि सम्यग्व्युत्पादितोऽमतः ॥ व्यवहारविसंवादान्मानतेन्द्रियलिङ्गयोः । आप्तवादाविसंवादाच्छब्दः प्रामाण्यमृच्छति ॥ 5 बौद्धाः प्रमेयद्वैविध्यात् प्रमाणं द्विविधं जगुः । नान्यः प्रमाणभेदस्य हेतुर्विषयभेदतः ॥ विशेषोऽध्यक्षतो गम्यः सामान्यमनुमानतः । नोभयं नोभयग्राह्यं पिष्टं पिष्टं नहीष्यते ॥ अतश्च नोपगच्छन्ति संप्लवं नीतिकोविदाः । एकस्मिन् विषयेऽनेकमानवृत्तिर्हि संप्लवः ॥ चोदनालक्षणत्वं च शास्त्रयोनित्वमेव च । धर्मस्य ब्रह्मणश्चापि तस्मादेवोपपादितम् ॥ समानविषयत्वे च जायेत सदृशी मतिः । नचाध्यक्षधिया साम्यमेति शब्दानुमानधीः ॥ तेजोऽन्यदेव नक्षत्रशशाङ्ककलादिषु ।
368 मानमेयरहस्यश्लोकवार्तिके अन्यदेवेन्द्रियग्राह्यमन्यत् शब्दादिगोचरम् । शब्दात्प्रत्येति भिन्नाक्षः नतु प्रत्यक्षमीक्षते ॥ अन्यथैवाग्निसंसर्गाद्दाहं दग्धोऽनुमन्यते । अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥ तस्मान्न संप्लवो नापि तृतीयं मानमिष्यते । प्रत्यक्षं च परोक्षं च मानं विषयभेदतः ॥ विकल्पविषये वृत्तिमाहुश्शब्दानुमानयोः । तेभ्यः संबन्धसिद्धौ च नानवस्था न संप्लवः ॥ यो वादिप्रतिवादिभ्यां निश्चितस्साधनं तु तत् । इत्युक्तवद्भिरप्येतैरसत्यात्सत्यधीर्मता ॥ अनुमानस्येत्थमेभिः प्रामाण्यं परिनिश्चितम् । तच्च सांवृतिकं वा सांव्यावहारिकमेववा ॥ 6 अथ तार्किकसिद्धान्तसंग्रहोऽप्यत्र लिख्यते । व्याप्त्यतीचारशङ्केत्थं प्रत्युक्ता कुसुमाञ्जलौ ॥ शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् । व्याघातावधिराशङ्का तर्कश्शङ्कावधिर्मतः ॥ अनुमानस्य बाधश्च नाध्यक्षात्किंतु तर्कतः । तत्र व्याप्त्याद्युपगमात् स्वव्याघातो दुरुत्तरः ॥ व्याघातो यदि दोषो न को वा दोषः उदीर्यताम् ।
अनुमानसमर्थनवादः ३६९ आशङ्का यदि निर्मूला सर्वत्र सुलभा हि सा । उत्प्रेक्षेत च यो मोहादज्ञातमपि बाधकम् ॥ स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् । इति पद्यं विश्रुतं हि यन्न्यायकणिकोदितम् ॥ व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा । हेतुर्व्याप्तिग्रहे तर्कः क्वचिच्छङ्कानिवर्तकः ॥ व्याघातो यदि शङ्काऽस्ति नचेच्छङ्का ततस्तराम् । व्याघातावधिराशङ्का तर्कश्शङ्काऽवधिः कुतः ॥ इत्थं खण्डनकारेण कुसृष्टिर्यैह कीर्तिता । सर्वार्थसिद्धौ शङ्कैषा प्रत्युक्ता सूरिभिर्यथा ॥ व्याघातनिर्धुता शङ्का व्याघाते सा कथं भवेत् । शब्दवैचित्र्यमात्रेण श्लोकस्तु परिवर्त्यते ॥ भूयोदर्शनतस्तत्र भवेच्छङ्कानिराक्रिया । तर्कस्तन्मूलभूतस्योपाधेरेव निवर्तकः ॥ निरुपाधिकसंबन्धो व्याप्तिरित्यत उच्यते । प्रायेण पक्ष एवैषोऽपूर्वरीत्याऽप्यनूद्यते ॥ न व्याप्तिर्नियमायोगादिति व्याप्तमिदं न वा । व्याप्तं चेत्स्वीकृता व्याप्तिः न व्याप्तं चेन्न दूषणम् । सर्वस्य व्यभिचारित्वे व्यभिचारो न सिद्ध्यति । एकस्याप्यव्यभिचारित्वे न सर्वव्यभिचारिता ॥ M.R. 47
370 मानमेयरहस्यश्लोकवार्तिके भूयोदर्शनतस्तावदुदेति मतिरीदृशी । नियतोऽयमनेनेति सकलप्राणिसाक्षिका ॥ दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणका । अत्र च प्रक्रियासारः विश्रुतोऽथापि लिख्यते ॥ 7 पञ्चलक्षणकाल्लिङ्गात् गृहीतानियमे स्मृतेः । परोक्षे लिङ्गिनि ज्ञानं अनुमानं प्रचक्षते ॥ व्याप्तिज्ञानं तु करणं फलं ह्यनुमितिर्मता । व्यापारस्तु परामर्शः जन्योऽपि जनकोऽपि सः । असाधारणहेतुर्यः करणं तदिहेष्यते । व्यापारवत्त्वं तस्येष्टमित्याहुर्नव्यतार्किकाः ॥ प्राचीनाः ज्ञायमानं तु लिङ्गं करणमूचिरे । अनागतादिलिङ्गेन न स्यादनुमितिस्तदा ॥ इति नव्या दोषमाहुः समाधिस्तत्रचेरितः । अनागतादिलिङ्गेनानागतादेर्भवेद्धि सा ॥ व्याप्यत्वेन ज्ञायमानं हेतुत्वेनाभ्युपेयते । न धूलीपटलज्ञानादपि सा नोपपद्यते ॥ व्याप्यस्य पक्षवृत्तित्वधीः परामर्श उच्यते । संबन्धग्रहवेलायां प्रथमं लिङ्गदर्शनम् ॥ या पक्षधर्मता सैव द्वितीयं लिङ्गदर्शनम् । परामर्शस्तृतीयं स्यात् तेनानुमितिसंभवः ॥
व्याप्तिस्मृतेः पक्षधर्मज्ञानाच्चानुमितिर्भवेत् । न विशिष्टपरामर्शादिति प्राभाकरा विदुः ॥ अख्यातिवादभङ्गायान्यथाख्यातिप्रसिद्धये । विशिष्टज्ञानजन्यत्वं साध्यते युक्तिवेदिभिः ॥ भेदाग्रहो हि गुरुभिः भ्रमस्थानेऽभिषिच्यते । वह्निव्याप्यो धूम एष हृद इत्यादिसंविदोः ॥ भेदाग्रहाच्चेदनुमा साऽन्यथाख्यातिरेव हि । विशिष्टबुद्धिः हेतुश्चेत् अयोगोलं च वह्निमत् ॥ इत्याद्यनुमितेर्हेतुः धूमधीरन्यथैव सा । सेयं चोभयतःपाशा रज्जुरित्यस्ति धीः भ्रमः ॥ सामान्यव्याप्तिसहितपक्षधर्मत्वधीबलात् । सामान्ये पक्षनिष्ठत्वं विशेषः किल साध्यते ॥ साध्यस्य संशयः पक्षतेति प्राचीनलक्षणम् । साधनेच्छाशून्यसिद्धेरभावो नव्यलक्षणम् ॥ धूमस्य पक्षता कैश्चित्प्राचीनैरुपवर्णिता । धूमोऽग्निमान् पाण्डुतादिविलक्षणगुणादिति ॥ जीमूताः वृष्टिमन्तः स्युः औन्नत्यादिगुणात्तथा कुमारिलोऽप्यन्ववादीदित्थं हि श्लोकवार्तिके ॥ तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात्प्रमेयता । सा देशस्याग्नियुक्तस्य, धूमस्यान्यैश्च कल्पिता
372 मानमेयरहस्यश्लोकवार्तिके 8 शाक्यास्तु सविकल्पस्य प्रत्यक्षत्वं न मन्वते । एतेषामनुमानादेरुत्पत्तिर्नैव सिध्यति ॥ सति भावो न कार्यत्वं किंतु सत्येव भाविता । तस्माच्चेदविनाभावः स्यादात्माश्रयणं ध्रुवम् ॥ प्रमातुः शिंशपात्वं तु यस्य प्रत्यक्षगोचरः । परोक्षं तस्य वृक्षत्वमिति नातीव लौकिकम् ॥ कार्यकारणभावोऽपि क्षणयोर्नैव संभवी । संभवन्नपि दुर्लक्षः तन्न हेतुरसावपि ॥ सोपाधिका चेदाशङ्का स्यादुपाधिविधूननात् । निर्धुतैव भवेत्तेनोपाधितत्त्वं विमृश्यताम् ॥ (76) उपाधिवादः. 1 साध्येन च समं व्याप्तः साधनाव्यापकश्च यः । स उपाधिरिति ह्याहोदयनो न्यायदेशिकः ॥ सिषाधयिषिते शब्दानित्यत्वे हि विशेषणैः । घटत्वमश्रावणत्वं सकर्तृत्वं च वार्यते ॥ वह्नौ साध्ये निवार्यन्ते तथैवैतैर्विशेषणैः । महानसत्वाद्व्र्व्यत्वतत्सामग्र्य इति क्रमात् ॥ 2 साध्यस्य साधनस्यापि व्यापकोऽव्यापकः क्रमात् उपाधिरिति वादीन्द्रः प्राह शंकरकिंकरः ॥
उपाधिवादः 373 3 उपाधिशब्दप्रवृत्तिनिमित्तमिदमुच्यते । अन्यत्र वस्तुनि स्वीयधर्मस्यारोपहेतुता ॥ जपायुपाधिः स्फटिकारुण्यबुद्धेर्हि तादृशः । दर्पणो मुखमालिन्यबुद्धेश्चोपाधिरिष्यते ॥ तथा स्वधर्मभूतायाः व्याप्तेः बुद्धिं करोति या । मैत्रीसुतत्वे हेतौ सा शाकपाकजता मता ॥ निरुपाधिकसंबन्धरूपव्याप्तिपरिग्रहात् । उपाधिशब्दाभिधेयापरित्यागेन दूषणे ॥ तात्पर्यं समशब्दस्य प्रयोक्तॄणां प्रतीयते । इतरेषां तु तात्पर्यमेतदध्यवसीयते ॥ व्यापकस्य निवृत्त्यैव व्याप्यं हि विनिवर्तते । पक्षे साध्यस्य बाधेनोपाधेर्दूषणता मता ॥ व्यर्थस्स्यात्समशब्दस्य प्रयोग इति निर्णयः । 4 व्यभिचारोन्नायकत्वेनोपाधेर्दूषकात्मता ॥ नव्यनैयायिकैरुक्ता सा किंचिदुपदर्श्यते । हेतुस्त्वसौ साध्यव्यापकोपाधिव्यभिचारतः ॥ साध्येन व्यभिचारी स्यात् यदित्थं तत्तथेष्यते । एवं सामान्यमुखतः दोषस्योन्नयनं विदुः ॥ 5 स उपाधिशङ्कितश्च निश्चितश्चेति च द्विधा । योग्यं चायोग्यमिति च द्वयं चोभयथा मतम् ॥
374 मानमयरहस्यश्लोकवार्तिकं योग्यं योग्यानुपलब्ध्याऽयोग्यं तर्केण धूयते । भूयोदर्शनतश्शक्या दृश्योपाधेः निराक्रिया ॥ अदृश्योपाधिशङ्का तु तर्कैरिति विदुः परे । उपाधित्वेन शङ्क्यस्य संबन्धो निरुपाधिकः ॥ अन्यथोपाधिता नास्ति तद्वदन्यत्र गृह्यताम् । अप्रयोजकताहेतुरुपाधिरिति निर्णयः ॥ यत्रानुकूलतर्कस्यासंभवस्सोऽप्रयोजकः । 6 नोपाधिः पक्षतोऽन्यत्वं साधनं च विपक्षतः ॥ बाधनं न सपक्षेभ्यः सर्वानुमितिबाधनात् । पक्षाद्भेदः विपक्षाच्च भेदः भेदः सपक्षतः ॥ नोपाधिर्न च हेतुस्स्यात्प्रतिरोधो नचैव हि । नोपाधिरिति पद्यस्य फलितार्थस्त्वसौ स्थितः । भूयोदर्शनतो व्याप्तिग्रहो न्यायविदीरितः । सकृद्दर्शनतो व्याप्तिग्रहस्स्यादेकदेशिनाम् ॥ 7 व्याप्याङ्गीकरणेऽनिष्टव्यापकस्य प्रसञ्जनम् । तर्कस्स चोभयविधविषयोपेत इष्यते ॥ प्रामाणिकपरित्यागोऽप्रामाणिकपरिग्रहः । एष चात्माश्रयान्योन्याश्रयचक्रकभेदतः ॥ प्रतिबन्धनवस्था च तथाऽनिष्टप्रसञ्जनम् । इत्येवंभेदतश्चापि प्रोक्तः षड्धा च पञ्चधा ॥