मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 406, कुल 672 में से
संदर्भ में पढ़ेंअबलाबालगोपालहालिकप्रमुखा अपि । बुद्ध्यन्ते नियतादर्थादर्थान्तरमसंशयम् ॥ अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा । लोकयात्रेति लोकास्स्युः चित्रिता इव निश्चलाः॥ २ अत्रानुमानप्रामाण्यवादिनां वाक्यसंग्रहः । आदौ सौगतसिद्धान्तवचनं त्ववधार्यताम् ॥ अनुमानं ह्यर्थदृक्स्यात् या च लिङ्गात्त्रिलक्षणात् इति दिङ्नागकथितं लक्षणं त्वित्यनूदितम् ॥ कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥ कार्यकारणभावो हि प्रत्यक्षेणावगम्यते । तदुत्पत्त्याख्यसंबन्धादविनाभावनिश्चयः ॥ सहभावित्वमथवा क्रमभावित्वमेववा । कार्यकारणभावस्स्यान्नियमो नात्र गर्भितः ॥ यथा धूमज्वलनयोः सुबीजाङ्कुरयोरपि । भवेद्यद्यपि चाशङ्का पुरुषस्य विपश्चितः ॥ तदेवाशङ्क्यते लोके यस्य शङ्का न बाधते । स्वप्रवृत्त्यादिकं हेतुफलभावनिबन्धनम् ॥ तादात्म्यनिश्चयेनापि क्वचित्तादृशनिश्चयः । वृक्षशिंशपयोरेषः सामानाधिकरण्यतः ॥