मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 405, कुल 672 में से
संदर्भ में पढ़ेंअनुमानसमर्थनवादः 36 सहकारिसनाथं चेत् विचित्रं करणं भवेत् । अनागतादिलिङ्गांशे सयूथ्यकलहोऽस्ति हि ॥ अत एवानुमानानामपश्यन्तः प्रमाणताम् । तद्विस्रम्भनिषेधार्थमिदमाहुर्मनीषिणः ॥ हस्तस्पर्शादिनाऽन्धेन विषमे पथि धावता । अनुमानप्रधानेन विनिपातो न दुर्लभः ॥ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ 7 द्विविधं ह्यनुमानं स्यादिति प्राहुस्सुशिक्षिताः । यथोत्पन्नप्रतीत्येवं तथोत्पाद्यप्रतीति च ॥ तत्र धूमानुमानादेः प्रामाण्यमुपगम्यते । यतश्च साध्यं बुद्ध्यन्ते पुरुषाः कोमलाशयाः ॥ यत्त्वात्मेश्वरसर्वज्ञपरलोकादिगोचरम् । अनुमानं न तस्येष्टं प्रामाण्यं तत्त्वदर्शिभिः ॥ तस्माद्विदुर्वेदविदः धर्मब्रह्मादिगोचरम् । अनुमानं नोर्जितं स्यादिति शब्दं विधान्तरम् ॥ (75) अनुमानसमर्थनवादः. 1 अत्रोच्यते न्यायविद्भिर्युक्तिचिन्ताविशारदैः । तानेवानुसरद्भिश्च सर्वैर्दार्शनिकैः परैः ॥