मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 407, कुल 672 में से
संदर्भ में पढ़ेंअनुमानसमर्थनवादः ३६. यत्र चात्यन्तभेदोऽस्ति गवाश्वादौ न तत्र हि । सामानाधिकरण्यं, तत् युगपन्न प्रयुज्यते ॥ अत्यन्ताभेदसत्त्वेन घटकुम्भादिवस्तुषु । सह प्रयोगो नैवास्ति नात्र तादात्म्यमिष्यते ॥ वृक्षोऽयं शिंशपेत्येवं प्रयोगो धीमतामपि । सामानाधिकरण्यं स्यात्तत्र तादात्म्यलक्षणम् ॥ वृक्षत्वं यद्यतिपतेत् शिंशपा कुत्रचित्तदा । स्वात्मानमेव संजह्यात् विपक्षे बाधकं न्विदम् ॥ तदुत्पत्तिः तदात्मत्वं अविनाभावबोधकम् । तत्कार्यं कारणं चात्मा स्वात्मानं साधयिष्यतः ॥ अनुमानं न प्रमाणमित्येवं चेत्प्रयुज्यते । एकाकिनी प्रतिज्ञा हि प्रतिज्ञातं न साधयेत् ॥ यदि च त्वाच्छिरस्कस्य प्रयोगः कस्यचित् तदा । स्वोक्तेरेव विरोधस्स्यात् माता वन्ध्या ममेतिवत् ॥ प्रमाणं च तदाभास सजातीयत्वहेतुना । ब्रुवन् स्वभावानुमानं स्वीकरोति भवानपि ॥ परकीयः संशयादिः ज्ञायते वचनाद्यदि । भवता स्वीकृतं तत्रानुमानं कार्यलिङ्गकम् ॥ तथैवानुपलब्ध्याऽपि कंचिदर्थं निषेधता । लिङ्गं ह्यनुपलब्ध्याख्यमगत्या स्वीकृतं भवेत् ॥