मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 408, कुल 672 में से
संदर्भ में पढ़ें366 मानमेयरहस्यश्लोकवार्त्तिके अत्रायं संग्रहश्लोकः तदुक्तः परिपठ्यते । प्रमाणान्तरसामान्यस्थितेरन्यधियां गतेः ॥ प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् । प्रतिषेधः स्वभावान्तर्नीतोऽभावे निरूप्यते ॥ कृत्तिकोदयतः क्वापि रोहिण्युदयनिश्चयः । तत्कोष्ठगत्यनुविहितान्वयव्यतिरेकतः ॥ 3 द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥ बुद्ध्यारूढेनैव धर्मधर्मिभावे न कल्पितम् । अनुमानं नैव बहिसदसत्त्वमपेक्षते ॥ निरुपप्लवभूतार्थस्वभावस्य विपर्ययैः । न बाधोऽयत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥ यतश्च सविकल्पस्य प्रत्यक्षत्वं न चेष्यते । न तस्मादनुमानादेरुत्पत्तिः परमार्थतः ॥ 4 न्यायरत्नाकरकृतामनूक्तिरवधार्यताम् । अनुमानं नैवमानमस्माकं परमार्थतः ॥ अवस्तुभूतसामान्यविषयत्वात्तथाऽपि च । तत्परंपरया वस्तुप्रभवं मानमिष्यते ॥ वह्निस्वलक्षणाद्धूमस्वलक्षणसमुद्भवः । ततश्च धूमप्रत्यक्षं ततो धूमविकल्पना ॥