मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 412, कुल 672 में से
संदर्भ में पढ़ें370 मानमेयरहस्यश्लोकवार्तिके भूयोदर्शनतस्तावदुदेति मतिरीदृशी । नियतोऽयमनेनेति सकलप्राणिसाक्षिका ॥ दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणका । अत्र च प्रक्रियासारः विश्रुतोऽथापि लिख्यते ॥ 7 पञ्चलक्षणकाल्लिङ्गात् गृहीतानियमे स्मृतेः । परोक्षे लिङ्गिनि ज्ञानं अनुमानं प्रचक्षते ॥ व्याप्तिज्ञानं तु करणं फलं ह्यनुमितिर्मता । व्यापारस्तु परामर्शः जन्योऽपि जनकोऽपि सः । असाधारणहेतुर्यः करणं तदिहेष्यते । व्यापारवत्त्वं तस्येष्टमित्याहुर्नव्यतार्किकाः ॥ प्राचीनाः ज्ञायमानं तु लिङ्गं करणमूचिरे । अनागतादिलिङ्गेन न स्यादनुमितिस्तदा ॥ इति नव्या दोषमाहुः समाधिस्तत्रचेरितः । अनागतादिलिङ्गेनानागतादेर्भवेद्धि सा ॥ व्याप्यत्वेन ज्ञायमानं हेतुत्वेनाभ्युपेयते । न धूलीपटलज्ञानादपि सा नोपपद्यते ॥ व्याप्यस्य पक्षवृत्तित्वधीः परामर्श उच्यते । संबन्धग्रहवेलायां प्रथमं लिङ्गदर्शनम् ॥ या पक्षधर्मता सैव द्वितीयं लिङ्गदर्शनम् । परामर्शस्तृतीयं स्यात् तेनानुमितिसंभवः ॥