मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 403, कुल 672 में से
संदर्भ में पढ़ेंअनुमानाक्षेपः 361 बहुकृत्वोऽपि वस्त्वात्मा तथेति परिनिश्चितः । देशकालादिभेदेन दृश्यते पुनरन्यथा ॥ भूयो दृष्टौ च धूमोऽग्निसहचारीति गम्यताम् । अनग्नौ तु स नास्तीति न भूयोदर्शनादृतेः ॥ गत्वागत्वा च तान् देशान् यद्यर्थो नोपलभ्यते । ततोऽन्यकारणाभावादसन्नित्यवगम्यते ॥ दर्शनादर्शनाभ्यां हि नियमग्रहणं यदि । तदप्यसदनग्नौ हि धूमस्येष्टमदर्शनम् ॥ अनग्निश्च कियान् प्रायो जगत् ज्वलनवर्जितम् । तत्र धूमस्य नास्तित्वं नैव पश्यन्त्ययोगिनः ॥ तदेवं नियमाभावात् सति वा ज्ञप्त्यसंभवात् । अनुमानप्रमाणत्वदुराशा प्रतिमुच्यताम् ॥ साध्यानुमितिवेलायां नचास्ति नियमग्रहः । नियमग्रहकाले च न साध्यमनुमीयते ॥ ३ निरुपाधिकसंबन्धो व्याप्तिरित्यभिधीयते । साध्येन यस्समं व्याप्तोऽव्यापकः साधनस्य यः ॥ स उपाधिरिति प्रोक्तः तत्र चात्माश्रयो ध्रुवः । अतो व्याप्तिपरिष्कारः शतशः क्रियते बुधैः ॥ ४ धर्मे सिषाधयिषिते न हेतोः पक्षधर्मता । धूमस्य वह्नयधर्मत्वात्, साध्यं धर्मी यदीष्यते ॥ M.R. 46