मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 402, कुल 672 में से
संदर्भ में पढ़ें360 मानमेयरहस्यश्लोकवार्तिके विशेषेऽनुगमाभावः सामान्ये सिद्धसाधनम् । अनुमाभङ्गपङ्केऽस्मिन् निमग्ना वादिदन्तिनः ॥ विशेषेऽनुगमाभावात्सामान्ये सिद्धसाधनात् । तद्द्वयोऽनुपपन्नत्वादनुमानकथा कुतः ॥ व्याप्तिरेवानुमानस्य जीवातुस्सा च सर्वथा । न संभवति संबन्धग्रहस्यानुपपत्तितः ॥ अन्वयव्यतिरेकाभ्यां नाविनाभावनिश्चयः । त्रैकालिकानां वस्तूनामानन्त्यादतिशङ्कनात् ॥ अतएवेहानुमानशब्दः प्रायेण लौकिकैः । प्रयुज्यते संशयार्थः परोक्षं संशयात्मकम् ॥ साहचर्ये च संबन्धे विस्रम्भ इति मुग्धता । शतकृत्वोऽपि तद्दृष्टौ व्यभिचारस्य संभवात् ॥ देशकालदशाभेदविचित्रात्मसु वस्तुषु । अविनाभावनियमः न संभवति कुत्रचित् ॥ 2 भवन्नप्यविनाभावः परिच्छेत्तुं न शक्यते । जगत्त्रयगताशेषपदार्थालोचनाद्विना ॥ ये तु प्रत्यक्षतो विश्वं प्रपश्यन्ति महाजनाः । किं दिव्यचक्षुषामेषां अनुमानप्रयोजनम् ॥ सामान्यद्वारकोऽप्यस्ति नाविनाभावनिश्चयः । वास्तवं तु न सामान्यं नाम किंचन विद्यते ॥