मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 422, कुल 672 में से
संदर्भ में पढ़ेंविशेषविषयं त्वाद्यं परं सामान्यगोचरम् । नातीन्द्रियेऽनुमानं स्यादिति कौमारिलं मतम् । प्रत्यक्षदृष्टसंबन्धं ययोरेव विशेषयोः । गोमयेन्धनतज्जन्यविशेषादिमतिः कृता ॥ तद्देशस्थेन धूमेन तत्र कालान्तरे पुनः । यदाऽग्निर्बुध्यते पुंसा विशेषविषयं तु तत् ॥ संदिह्यमानसद्भाववस्तुबोधात्प्रमाणता । विशेषदृष्टमेतच्च लिखितं विन्ध्यवासिना ॥ प्राप्तिसामान्येन यत्र गतिसामान्यधीर्भवेत् । आदित्यादौ तत्र दृष्टं सामान्यमिति वार्तिकम् । अर्थापत्त्यैव शक्त्यादेस्सिद्धिमेते विदुर्बुधाः । अनुमानेन शक्त्यादेस्सिद्धिं प्राभाकरा विदुः ॥ तेनेश्वराद्यसिद्धौ तु वेदस्यापौरुषेयता । निराबाधेति हृदयं कौमारिलमिति स्थितम् ॥ 13 सांख्यास्सामान्यतोदृष्टमतीन्द्रियपदं विदुः । तेन क्रिया सकरणिकेतीन्द्रियं साधयन्ति ते ॥ अनुमानं पुनस्सामान्यावधारणलक्षणम् । यथादेशान्तरप्राप्तेर्गतिमच्चन्द्रतारकम् ॥ प्रत्यक्षं तु विशेषस्य प्राधान्येनावधारणा । इति पातञ्जले योगभाष्येऽप्येतद्विवेचितम् ॥