भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 421, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 421

परं सामान्यतोदृष्टसम्बन्धमिति कीर्तितम् । विशेषतोदृष्टमेव प्रत्यक्षत इतीर्यते ॥ सामान्यतोदृष्टमेव स्याद्वैभाषिकसम्मतम् । परोक्षमानं सामान्यगोचरन्विति तन्मतम् ॥ वैशेषिकादयस्तत्र त्वित्थं व्यवहरन्ति हि । दृष्टं चादृष्टमिति च शब्दमात्रप्रभेदतः ॥ 12 सामान्यतोदृष्टमेव द्वितीयमिह कथ्यते । तदेव परिशेषानुमानं व्याख्यातृसम्मतम् ॥ क्रियादिविषयादृष्टस्वलक्षणमितीतरे । दृष्टस्वलक्षणं सर्वमिति केचित् विदुः परे ॥ तेन सामान्यतोदृष्टं दृष्टं चापि विशेषतः । इति द्विधाऽनुमानं स्यादितरेषां विपश्चिताम् ॥ साङ्ख्या गोहिं विज्ञानं दृष्टमित्यभिधीयते । अत्यन्तजात्यभेदेऽपिचानुमानं तदिष्यते ॥ अत्यन्तजातिभेदे तु दृष्टं सामान्यतो मतम् । यथा प्रवृत्तिस्सफला वणिक्कर्षकभूभुजाम् ॥ तथा वर्णाश्रमवतां दृष्टार्थानभिलाषिणाम् । इति प्रशस्तपादेन द्वयमेतदुदाहृतम् ॥ दृष्टं वह्न्यादिकं तत्रादृष्टं कर्मादिकं त्विति । अनुमानप्रमेयं च द्विविधं गुरवो विदुः ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 421, कुल 672 में से · BharatKosha