भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 420, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 420

378 मानमेयरहस्यश्लोकवार्तिके हेतुबिन्दुवचस्त्वेतत्कीर्तितं धर्मकीर्तिना । स एव भिक्षुः बहुधा कुमारिलहृदिस्थितः ॥ यद्यप्यनुपलब्धिस्सा स्वभावान्तर्निपातिनी । तथापि प्रतिषेधस्य साधनात्पृथगुच्यते ॥ सा चैकादशधेत्येके परे षोडशधेति च । प्राहुर्विभागवैचित्र्यात् पृथक्कृतिफलं न्विदम् ॥ तथा प्रसङ्गानुमानं तद्विपर्यय इत्यपि । विभागोऽस्ति तदर्थं तु वक्तीत्थं किरणावली ॥ तत्स्वभावानुमानं यत् प्रसङ्ग इति कथ्यते । व्यापकानुपलब्धिर्या स विपर्यय इष्यते ॥ 8 मात्रानिमित्तसंयोगिविरोधिसहचारिभिः । स्वस्वामिवध्यघाताद्यैः सांख्यानां सप्तधाऽनुमा ॥ 9 अस्येदं कारणं कार्यं संबन्ध्येकार्थयोगिता । विरोधि लैङ्गिकमिति चतुर्धा कणभोजिनाम् ॥ 10 इति वाचस्पतिः प्राह नैयायिकमते पुनः । पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्त्रिधा ॥ इत्यक्षपादसूत्रोक्तं कार्यं कारणमेवच । अकार्यकारणं चेति तस्यार्थः कैश्चिदिष्यते ॥ 11 तथैव शाबरे भाष्ये त्वौपवर्षं द्विधेरितम् । यथा प्रत्यक्षतोदृष्टसंबन्धं प्रथमं मतम् ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 420, कुल 672 में से · BharatKosha