भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 419, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 419

लिङ्गविचारः 377 अज्ञातस्य हि लिङ्गस्य हेतुता न च कस्यचित् । प्रसज्यते तार्किकाणां ज्ञातत्वमधिकं ततः ॥ हेतोश्च ज्ञापकत्वेन ज्ञातत्वं यदि लभ्यते । विपक्षव्यावृत्तिमात्रादबाधोप्यत्र लभ्यते ॥ अन्यथानुपपत्त्यैकरूपस्यैतत्प्रपञ्चनम् । षड्रूपता तथा पञ्चरूपता वा त्रिरूपता ॥ 6 यन्न्यायपरिशुद्धयुक्तमन्यथारूपपञ्चकम् । तदप्यत्रावधातव्यं प्रक्रियामात्रभेदतः ॥ असिद्धार्थत्वं च साध्यज्ञापनाय प्रवृत्तता । विशिष्यानास्कन्दितता व्याप्तिग्राहकमानतः ॥ संदिह्यमानविषयवत्ता व्यक्तिविभिन्नता । पक्षस्थहेतुव्यक्तौ स्यादित्येतद्रूपपञ्चकम् ॥ दृष्टान्तव्यक्तिवृत्तौ तु हेतौ तेषां विपर्ययः । सिद्धार्थत्वादिकं रूपपञ्चकं तत्र शाश्वतम् ॥ ततश्च दश रूपाणि सद्धेतोरसतः पुनः । न्यूनानीति विदुर्धीराः व्यासाभिरुचयस्तु ते ॥ 7 लिङ्गं तु त्रिविधं कार्यस्वभावानुपलब्धयः । इति वैभाषिकाः प्राहुरिति सर्वत्र विश्रुतम् ॥ पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः ।