मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 424, कुल 672 में से
संदर्भ में पढ़ें82 मानमेयरहस्यश्लोकवार्तिके तेनेन्दुपरभागादिसिद्धिः शैलापरान्तवत् । व्यक्तेरैक्येऽपिवा देशकालावस्थाभिदावशात् ॥ शृङ्गाच्छैलः स्वरात्पुत्रः रोहिणी कृत्तिकोदयात् । विशेषतोदृष्टमेतत् परं धूमादिकं भवेत् ॥ एतेऽतीन्द्रियवस्तूनां शास्त्रतस्सिद्धिवादिनः । बादरायणसिद्धान्तशास्त्रयोनिनये स्थितः ॥ भवन्तं च भविष्यन्तं भूतं व्यवहितं तथा । सूक्ष्मं च विप्रकृष्टं चेत्येवंजातीयकं तथा ॥ वेदो बोधयितुं शक्तः नान्यदित्यस्ति शाबरम् । तद्युक्तं ततश्चानुमानं त्रैकाल्यगोचरम् ॥ सर्वार्थविषयं चेति न्यायवित्प्रवरोदितम् । विवादोऽयमनादिस्स्यात् उक्तियुक्त्योः परस्परम् । 16 स्वार्थं परार्थमिति च द्विविधं हि विभज्यते । नैयायिकैः तत्र दोषमिममाहुः परे बुधाः ॥ सर्वाणि चानुमानानि स्वानुसंधानशक्तितः । प्रवृत्तानि स्वव्यवहृतिसाधनानीति हि स्थितम् । चेद्विभज्य च वक्तव्यमेवं वक्तुं हि साम्प्रतम् । स्वयंसिद्धं चान्यवाक्यपूर्वकं चेति भेदतः ॥ स्वार्थं परार्थमिति हि प्रत्यक्षादावपीष्यताम् । दोषज्ञाः सूक्ष्ममतयः श्रोतारो नहि केवलम् ॥