भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 425, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 425

व्याप्तिः ३ नचापूर्वास्तीर्थकराः न भवन्तीति निर्णयः । तथात्वे प्रथमैकान्तपरिशेषः प्रसज्यते ॥ (78) व्याप्तिः. 1 अथ व्याप्तिपदार्थीयविकल्पस्यापि संग्रहः । तत्प्रमाणविकल्पोऽपि संग्रहादिह सूच्यते ॥ अविनाभावनियमः व्याप्तिस्सौगतसम्मता । सा च साध्यवदन्यस्मिन्नसंबन्धो निरुच्यते ॥ व्यतिरेकस्सुग्रहस्स्याद्दुर्ग्रहो यावदन्वयः । अतएवाविनाभाव इत्युक्तिः व्यतिरेकतः ॥ व्यतिरेकव्याप्तिरेवानुमानाङ्गतया मता । वैधर्म्यतश्च दृष्टान्तः विपक्षाद्विनिवृत्तये ॥ कार्यकारणभावो वा स्वभावो वाऽत्र गृह्यते । व्याप्तिग्रहोपायतया तैर्बौद्धैरिति निर्णयः ॥ 2 नैयायिकैस्साहचर्यनियमो व्याप्तिरिष्यते । तच्च व्यापकसामानाधिकरण्यमितीर्यते ॥ साहचर्यं चान्वयतः तथैव व्यतिरेकतः । द्वेधाऽपि सम्मतं तेन लिङ्गं त्रिविधमुच्यते ॥ साहचर्येऽत्र घटकः संबन्धः बहुधा मतः । नौलुक्यवच्चतथैव सांख्यवन्नापि सप्तधा ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 425, कुल 672 में से · BharatKosha