भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 426, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 426

384 "मानमेयरहस्यश्लोकवार्तिके इयानेव विशेषोऽत्र भावयोर्यादृशी ययोः । व्याप्यव्यापकता सैव व्यत्यस्ता तदभावयोः ॥ अग्नेर्भावस्य भूयस्त्वात्तदभावोऽल्पतां व्रजेत् । धूमभावस्य चाल्पत्वात् तदभावो महत्तरः ॥ व्यभिचारज्ञानशून्यसहचारस्य दर्शनम् । हेतुर्व्याप्तिग्रहे तर्कः क्वचिच्छङ्कानिवर्तकः ॥ यावतीनां साध्यहेतुव्यक्तीनां स्यादलौकिकम् । सामान्यलक्षणासत्त्या सहचारस्य दर्शनम् ॥ 3 मीमांसकानां सिद्धान्ते व्याप्तिस्तत्त्वमिदं मतम् । व्याप्तिर्हि नियमः कश्चित् संबन्धोऽस्ति विलक्षणः संबन्धो व्याप्तिरिष्टाऽत्र लिङ्गधर्मस्य लिङ्गिना । व्याप्यस्य गमकत्वं च व्यापकं गम्यमिष्यते ॥ यो यस्य देशकालाभ्यां समो न्यूनोऽपिवा भवेत् । स व्याप्यः व्यापकस्तस्य समो वाऽभ्यधिकोऽपि वा येन केनापि संबन्धेनैष क्वापि नियम्यते । स एव लिङ्गधर्मस्य लिङ्गता समुदाहृता ॥ तथा च नियमाख्यो यस्संबन्धो व्याप्तिलक्षणः । तदभावादागमोऽपि प्रमाणं स्याद्विलक्षणम् ॥ व्याप्तिस्सपक्षदृष्टैवानुमानाङ्कतया मता । सर्वदेशव्याप्तिरत्र दुर्ग्रहैव विपश्चिताम् ॥