भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 429, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 429

अवधार्येत सैव स्यादनुमाङ्गमितीतरे । इत्थं व्याप्तिविकल्पोऽयं संक्षेपादिह सूचितः ॥ 6 अथ साधर्म्यवैधर्म्यविचारे किंचिदुच्यते । शाक्या वैधर्म्यवचनं पाक्षिकं नैव सेहिरे ॥ वैधर्म्यमेव वक्तव्यं सर्वदेत्यप्यवादिषुः । धूमत्वं नाम सामान्यं न वस्तु परमार्थतः ॥ अस्तु वाऽथापि साधर्म्यं न वक्तुमिह शक्यते । अशेषदेशकालेषु दुर्ग्रहः शिखिनोऽन्वयः ॥ विपक्षव्यतिरेकस्तु सुज्ञानः स्याददर्शनात् । सुकरं चैकदेशस्थैनैवानग्निष्वदर्शनम् ॥ तस्माद्धूमो ह्यनग्निभ्यो रिच्यमानोऽवबोधकः । अनग्निव्यावृत्तिमुखादग्नेरिह विनिश्चयः ॥ अतद्व्यावृत्तिविषयौ लिङ्गशब्दावतो मतौ । अत्र प्रत्युक्तिरेषा स्यादपोहश्लोकवार्तिकम् ॥ न चादर्शनमात्रेण ताभ्यां प्रत्यायनं भवेत् । सर्वत्रेव ह्यदृष्टत्वात्प्रत्याय्यं नावशिष्यते ॥ अस्य चायमभिप्रायस्संग्रहात्प्रतिपाद्यते । विपक्षादर्शनं त्वत्रादर्शनस्वनशब्दितम् ॥ प्रत्यायनं पुनरतद्व्यावृत्तिविषयं मतम् । तच्छब्दार्थौ लिङ्गशब्दौ तत्रापोहमतिः क्वचित् ।