मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 428, कुल 672 में से
संदर्भ में पढ़ें386 मानमेयरहस्यश्लोकवार्तिके उद्देश्यतावच्छेदकव्यापकत्वं हि भासते । विधेयस्येत्येतदेव विवृतं नव्यतार्किकैः ॥ साध्येन साधनस्याथ व्याप्तिमन्थे प्रचक्षते । व्याप्तिरावृत्तिरेषा स्यादथवाऽधिकदेशता ॥ भूमौ प्रतिष्ठितो वह्निः धूमाग्रं व्योम्न्यवस्थितम् । व्याप्नोति कथमित्यत्र प्रत्यवस्थीयते परैः ॥ 4 निरूपाधिकसम्बन्धो व्याप्तिरित्यपरे विदुः । उपाधिस्साधनाव्याप्तिसाध्यव्याप्त्यादिगर्भितः ॥ तत्रोपाधिव्याप्तिवस्तुनिर्णयेऽन्योन्यसंश्रयः । तत्रचेत्थं समाधानं परिशुद्धावुदीरितम् ॥ यो यावत्साध्यदेशस्थः न यावद्धेतुदेशगः । स उपाधिरिति ज्ञानान्न दोष इति निश्चितम् ॥ 5 अन्तर्व्याप्तिः बहिर्व्याप्तिरिति व्याप्तिर्द्विधा मता । सिषाधयिषितव्यक्तिव्याप्तिरन्तरितीर्यते ॥ बहिः व्यक्त्यन्तरव्याप्तिरिति ह्यार्हतनिर्णयः । पक्षे व्याप्तिर्भवेदन्तः त्वन्यत्र बहिरिष्यते ॥ इति प्रमाणतत्त्वेऽपि विस्तृतं देवसूरिणा । विशेषव्याप्तिरन्तः स्यात् बहिसामान्यतो भवेत् ॥ वृथा विभाग इत्याहुः विबुधा न्यायवेदिनः । व्यतिरेकव्याप्तिबुद्ध्याऽप्यन्वयव्याप्तिरेव हि ॥