मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 444, कुल 672 में से
संदर्भ में पढ़ें402 मानमेयरहस्यश्लोकवार्तिके 9 मीमांसकानां सिद्धान्ते त्वथाभासो निरूप्यते । दोषोऽनुमाने द्विविधः प्रतिज्ञाहेतुभेदतः ॥ त्रिधा प्रतिज्ञादोषस्स्यात् स्ववाग्विहतिलक्षणः । वन्ध्या मे जननीत्येवं सर्वं वाक्यं मृषेत्यपि ॥ यावज्जीवमहं मौनी धर्मिधर्मोक्तिरोधतः । असिद्धिश्चाप्यनैकान्तिकत्वं बाधकतेति च ॥ हेतुदोषस्त्रिधा ख्यातः पञ्चधाऽसिद्धिरुच्यते । स्वरूपासिद्धिसंबन्धासिद्धी च व्यतिरेकतः ॥ असिद्धिराश्रयासिद्धिः व्याप्त्यसिद्धिश्च पञ्चमी । शशशृङ्गादिहेतुत्वे स्वरूपासिद्धिरुच्यते ॥ पक्षावृत्तेस्तु हेतुत्वे संबन्धासिद्धिरुच्यते । व्यतिरेकासिद्धिरेषा हेतुः पक्षात्मको यदि ॥ आश्रयासिद्धिरत्र स्यान्नचेत्पक्षः प्रसिद्धयति । भिन्नाधारे साध्यहेत्वोः व्याप्यत्वासिद्धिसंभवः ॥ द्विधाऽनैकान्तिकत्वं स्याद्धेतुदोषोऽप्यनन्तरः । आद्यं सव्यभिचारं स्यात् परं सप्रतिसाधनम् ॥ बाधकत्वं विरुद्धत्वं तृतीयो दोष इष्यते । 10 भाट्टानां संशयोभीष्टः फलं सप्रतिसाधने ॥ गुरूणां तादृशो दोषः नेष्टः वस्तुविरोधतः । नहि वस्तु विकल्प्येत न विरुद्धसमुच्चयः ॥