मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 445, कुल 672 में से
संदर्भ में पढ़ेंएतेन वस्तुनो नानाकारता भाट्टसम्मता । सोऽनेकान्तो वाद इति गुरुभिस्त्वधरीकृतः ॥ अतएवानित्यदोषं प्राहुर्नैयायिका अपि । रत्नकोशकृतोऽप्यत्र विदुस्संशयहेतुताम् ॥ असाधारणदोषस्य शाक्यास्संशयहेतुताम् । वदन्ति तच्चानुमतं दूषितं च कुमारिलैः ॥ 11 विरुद्धव्यभिचारीति केचिज्जात्यन्तरं विदुः । साधारणविशेषं तं प्राहुः केचन सूरयः ॥ असाधारणमित्यन्ये प्रतिपक्षं परे विदुः । यथा परोदितैरेव पक्षहेतुनिदर्शनैः ॥ विरुद्धसाधने तत्र विरुद्धव्यभिचारिता । सर्वसत्प्रतिपक्षाणां विरुद्धव्यभिचारिताम् ॥ कदाचिदूचुराचार्याः समासरुचयो बुधाः । 12 पक्षेण व्यभिचारस्य चोदना शाक्यसम्मता ॥ संदिग्धानैकान्तिकता सोच्यते, नान्यसम्मता । अनुमानस्य चोच्छित्तिस्तादृग्दोषानुधावने ॥ 13 स व्यधिकरणासिद्धः हेतुः पक्षेतरस्थितः । इत्याहुरपरे सोऽपि संबन्धासिद्धिमान् भवेत् ॥ 14 असाधारण एवायमनध्यवसिताभिधः । हेत्वाभासान्तरमिति भूषणन्यायसम्मतः ॥