मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 449, कुल 672 में से
संदर्भ में पढ़ेंकथा 40 निग्रहस्थानमुदितं चतुर्विंशतिधा परम् । इति न्यायविदः प्राहुः परैर्विविधमिष्यते ॥ 7 छलं च प्रायशः विश्वव्यामोहनमिति स्थितम् । जातिः स्वव्याघातकत्वादसदुत्तरमुच्यते ॥ परापादितदोषाणामनभ्युपगमेन वा । तदुद्धारेण वा दोषं ब्रूयादिति विनिर्णयः ॥ तथैवाप्रतिपत्त्या वाऽथवा विप्रतिपत्तितः । प्रतिज्ञादिपरित्यागान्निग्रहस्थानसंभवः ॥ तूष्णींभावो यदा तूष्णींभावो निग्रहकारणम् । प्रलपेत्तु यदा तत्र भवेत्प्रलापितं तु तत् ॥ यथायथा चेष्टते सः तथा निग्रहहेतुता । अनन्तं निग्रहस्थानं कीर्तितं धर्मकीर्तिना ॥ एवं नानाविधकथाभासतत्त्वावलोकिनाम् । सदुत्तरैस्तदुत्थानात् तत्त्वधीजयसंभवः ॥ अन्यथा षण्डचेष्टावद्भवेयुरफलाः कथाः । इति प्रख्यापनायात्र कथाभास उदाहृतः ॥ 8 वादरूपैवैकधेति कथां तामार्हता विदुः । वीतरागकथा वाद इत्यतो विश्रुतो भुवि ॥ विश्रुता वीतरागास्ते नाम्नाऽपि प्रायशो बुधाः । पराजयभयाद्वीतरागता यशसेऽपि वा ॥