मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 450, कुल 672 में से
संदर्भ में पढ़ें408 मानमेयरहस्यश्लोकवार्तिके इति भेदानादरस्स्यादित्याहुर्वादकौतुकाः । नियोज्यः पर्यन्नूयोज्यः न कश्चित्कस्यचिद्भुवि ॥ संभवैतिह्यचेष्टादिप्रमाणानां यथायथम् । अनुमानप्रभृतिषु ह्यन्तर्भावो बुधैर्मतः ॥ चेष्टा सामायिकी शब्दव्यवहारानुसारिणी । अस्येयं बोधिकेत्येवं भरताद्यागमे स्थिता ॥ एवं लिप्यादिकमपि यथासंभवमर्हति । अन्तर्भावं ततस्तत्र न विकल्पोऽस्ति वादिनाम् इत्येवमनुमानस्य सारांशः परिकीर्तितः । बहुभिर्बहुधा प्राज्ञैः प्रायशो विस्तरः कृतः ॥ (83) उपमानम् 1 वृद्धनैयायिकास्तत्रातिदेशवचनं श्रुतम् । संज्ञाप्रतीतिफलकमुपमानं प्रचक्षते ॥ उपायमात्रावगमे शब्दव्यापारविश्रमात् । निरपेक्षोपेयबोधतत्परादागमाद्भिदा ॥ यथा परार्थानुमानं नागमः किंतु भिद्यते । लिङ्गसामर्थ्यरूपस्योपायस्य प्रतिपादनात् ॥ 2 नव्यनैयायिकानां तु सिद्धान्तोऽथ प्रदर्श्यते । श्रुतातिदेशवाक्यस्य तथा विपिनगामिनः ॥