भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 45, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 45

शास्त्रारम्भः 4 मेयं मानाधीनमपि तदेवादौ निरूप्यते । प्रोपसर्गप्रयोगस्तु प्रमाभ्रमविवेकतः ॥ विज्ञानाद्वैतसिद्धान्ते प्रविवेको न कश्चन । तथाऽसत्ख्यातिसिद्धान्ते व्यवहारो ह्युपप्लवः ॥ मानाधीना मेयसिद्धिः मानसिद्धिश्‍च¹ लक्षणात् तल्लक्षणप्रमाणाभ्यां वस्तुसिद्धिरितीर्यते ॥ ज्ञातं सम्यगसम्यग्वा यन्मोक्षाय भवाय वा । तत्प्रमेयमिहाभीष्टं न प्रमाणार्थमात्रकम् ॥ इति न्यायविदः प्राहुः प्रमाणपरिनिष्ठिताः । काणादास्तु पदार्थज्ञाः प्रमेयपरिनिष्ठिताः ॥ प्रमेयं च प्रमाणं च प्रयोजनमिति त्रिभिः । विभागैः प्रविभक्तोऽयं प्रबन्ध इति हि क्रमः ॥ (2) शास्त्रारम्भः. 1 विषयश्च फलं चैव संबन्धश्चाधिकार्यपि । प्रेक्षावतां प्रवृत्त्यङ्गमनुबन्धचतुष्टयम् ॥ अभिधेयादयश्शास्त्रे कथ्यन्ते प्रथमं बुधैः । न निश्चीयन्त एवैते कृत्स्नशास्त्रश्रुतेः पुरा ॥ प्रेक्षावतां प्रवृत्त्यङ्गं स्यात्तथाप्यर्थसंशयः । अनर्थसंशयो दृष्टः निवृत्त्यङ्गं परीक्षकैः ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 45, कुल 672 में से · BharatKosha