मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 46, कुल 672 में से
संदर्भ में पढ़ें4 मानमेयरहस्यश्लोकवार्तिके 2 तेष्वनर्थेष्वशक्यानुष्ठानं प्रथममुच्यते । यथा च तक्षकमणिः ज्वरपीडां हरेदिति ॥ विफलं तु द्वितीयं स्यात् काकदन्तपरीक्षणम् । तृतीयं चानभिमतं जननीपाणिपीडनम् ॥ असंबद्धं तुरीयं स्यात् जरद्गववचो¹ यथा । संभावितेनाप्येकेन प्रवृत्तिः प्रतिबध्यते ॥ इति धार्मोत्तरं वर्त्म न्यायबिन्दुमुखे स्थितम् । न्यायवार्तिकतात्पर्यटीकारम्भेऽपि सूचितम् ॥ व्यतिरेकदृशः केचित् केचिदन्वयदृष्टयः । प्राचीनाः प्रायशः पूर्वे पराचीनाः परे मताः ॥ ततोऽभिधेयसम्बन्धकथनं स्यादिहादितः । तच्चाभिधेयसम्बन्धसमर्थनमपीष्यते ॥ 3 प्रमाणनयतत्त्वाख्यालोकालंकारमूलके । रत्नाकरावतारेऽस्य निदानं विदितं यथा ॥ शास्त्रादावभिधेयार्थो दुर्निंरूपोऽभिधित्सितः । सोऽसंबद्धोऽथ संबद्धः नाद्यः प्रागेकवाक्यतः ॥ सर्वशास्त्रार्थसंदर्भगर्भाविर्भावसंभवात् । कृतं शास्त्रेण शेषेण बहलक्लेशकारिणा ॥ ¹ जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मद्रकाणि । तं ब्राह्मणी पृच्छति पुत्रकामा राजन् रुमायां लवणस्य कोऽर्घः ॥