भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 47, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 47

शास्त्रारम्भः 5 नान्त्यश्शब्दाभिसंबन्धे विकल्पानुपपत्तितः । संयोगाद्यास्तु संबन्धाः नैव संभावनापदम् ॥ तादात्म्यं वा तदुत्पत्तिः वाच्यवाचकताऽथवा । स्यादाद्यपक्षे प्रायेण जगतो मिश्ररूपता ॥ क्षुरमोदकशब्दाभ्यां स्यातां पाटनपूरणे । द्वितीयपक्षोऽपि मिथोऽनुपलम्भपराहतः ॥ तृतीयोऽपि स्वरूपं वा भिन्नो वेति विकल्प्यते । आद्ये नाधिकमुक्तं स्यात् अन्त्ये नित्योऽथवेतरः ॥ नित्यश्चेन्नित्यतापत्तिः एतत्संबंधिनोरपि । अनित्यश्चेत्स्वरूपं चेत् नाधिकं स्यादितीरितम् ॥ भिन्नश्चेदनवस्था स्यात् तादात्म्यादिविकल्पतः । सर्वेषामपि नित्यत्वं क्षणभङ्गपराहतम् ॥ दुर्ग्रहश्चापि संकेत: स्वरसक्षणभङ्गिनी । विकल्पयोनयश्शब्दा विकल्पाइशब्दयोनयः ॥ कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यमी । इति प्राचामुक्तिरेषा सकलार्थप्रदर्शिनी ॥ अतोऽभिधेयसंबन्धभङ्गुरः शास्त्रडम्बरः । सोऽयं सौगतसिद्धान्तः शास्त्रारम्भप्रभञ्जकः ॥ 4 क्षेप्तुं वादानवमादीन् दृश्यते किल वार्तिके । सिद्धे शब्दार्थसंबन्ध इति वाररुचं वचः ॥