मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 48, कुल 672 में से
संदर्भ में पढ़ें6 मानमेयरहस्यश्लोकवार्तिके शब्दे चार्थे च संबन्धे नित्य एवेति तद्वचः । व्याख्यातं भाष्यकारेण पतञ्जलिमहर्षिणा ॥ औत्पत्तिकस्तु शब्दस्यार्थेन संबन्ध इत्यपि । जैमिनिसूत्रयामास शब्दार्थान्वयनित्यताम् ॥ नित्याश्शब्दार्थसंबन्धाः समाम्नाता महर्षिभिः । सूत्राणां सानुसन्त्राणां भाष्याणां च प्रणेतृभिः ॥ इति वाक्यपदीयेऽपि प्राह भर्तृहरिः स्वयम् । यश्शब्दाद्वैतसिद्धान्तप्रतिष्ठापनदेशिकः ॥ 5 सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्य चित् । यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ॥ सिद्धार्थं सिद्धसंबन्धं श्रोतुं श्रोता प्रवर्तते । ग्रन्थादौ तेन वक्तव्यस्संबन्धः सप्रयोजनः ॥ संबन्धोऽस्ति च नित्यश्चेत्युक्तमौत्पत्तिकादिना । अप्रामाण्यनिरासार्थं, तद्द्वयं नेष्यते परैः ॥ वाच्यवाचकसंबन्धनिषेधे लोकबाधनम् । विरोधश्च स्ववाक्येन न हि संबन्धवर्जितैः ॥ प्रतिज्ञार्थं पदैः शक्यः प्रतिपादयितुं परः । तस्माद्गमकतारूपः वृद्धेभ्यस्त्विह शिक्ष्यते ॥ इति कौमारिले श्लोकवार्तिके चोपबृंहणम् । अत एव हि शब्दादेर्नित्यताऽस्थापि सूरिभिः ॥