भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

6 मानमेयरहस्यश्लोकवार्तिके शब्दे चार्थे च संबन्धे नित्य एवेति तद्वचः । व्याख्यातं भाष्यकारेण पतञ्जलिमहर्षिणा ॥ औत्पत्तिकस्तु शब्दस्यार्थेन संबन्ध इत्यपि । जैमिनिसूत्रयामास शब्दार्थान्वयनित्यताम् ॥ नित्याश्शब्दार्थसंबन्धाः समाम्नाता महर्षिभिः । सूत्राणां सानुसन्त्राणां भाष्याणां च प्रणेतृभिः ॥ इति वाक्यपदीयेऽपि प्राह भर्तृहरिः स्वयम् । यश्शब्दाद्वैतसिद्धान्तप्रतिष्ठापनदेशिकः ॥ 5 सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्य चित् । यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ॥ सिद्धार्थं सिद्धसंबन्धं श्रोतुं श्रोता प्रवर्तते । ग्रन्थादौ तेन वक्तव्यस्संबन्धः सप्रयोजनः ॥ संबन्धोऽस्ति च नित्यश्चेत्युक्तमौत्पत्तिकादिना । अप्रामाण्यनिरासार्थं, तद्द्वयं नेष्यते परैः ॥ वाच्यवाचकसंबन्धनिषेधे लोकबाधनम् । विरोधश्च स्ववाक्येन न हि संबन्धवर्जितैः ॥ प्रतिज्ञार्थं पदैः शक्यः प्रतिपादयितुं परः । तस्माद्गमकतारूपः वृद्धेभ्यस्त्विह शिक्ष्यते ॥ इति कौमारिले श्लोकवार्तिके चोपबृंहणम् । अत एव हि शब्दादेर्नित्यताऽस्थापि सूरिभिः ॥

मङ्गलविचारः 6 जात्याख्यस्यातिरिक्तस्य नित्यस्यापि च वस्तुनः स्वीकारोऽपि च शिक्षायै स्यात्प्रपञ्चापलापिनाम् । कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः । वर्णोऽप्येको गकारादिरिति वादा अपीदृशाः ॥ तस्मादादौ शास्त्रकृतामर्थसम्बन्धसूचनम् । साधने पर्यवसितं शास्त्रारम्भोऽयमुच्यते ॥ इदानींतनशास्त्रेषु तद्विशेषविचिन्तना । प्रवर्तते युक्तिमूला सति कुड्येऽनुलेपवत् ॥ (3) मङ्गलविचारः. 1 प्रारिप्सितसमाप्त्यर्थं शिष्टाः कुर्वन्ति मङ्गलम् । आचारानुमितश्रुत्या तद्धेतुत्वं हि मीयते ॥ प्रमिते साधनत्वेऽस्मिन् श्रुत्यैव निरपेक्षया । व्यभिचारः परीहार्यः क्वचिच्चित्रादिनीतितः ॥ फलानन्तर्यनियमो यदि हेतुत्वमिष्यते । व्यभिचारस्य शङ्कैव न हि स्यादवकाशिनी ॥ तत्स्यादारब्धकर्माङ्गं प्रागनुष्ठानदर्शनात् । विघ्नध्वंसस्तदत्यन्ताभावो वा द्वारमिष्यते ॥ समाप्यतामिदं कर्म निर्विघ्नमिति कामना । यदा श्रुतित एव स्यात् तदा द्वारत्वनिर्णयः ॥

8 मानमेयरहस्यश्लोकवार्तिके संशयो निश्चयो वाऽत्र विघ्नज्ञानं प्रवर्तकम् । समाप्तिकामो विघ्नज्ञः सोऽधिकार्यत्र बोध्यते ॥ २ प्रधानं मङ्गलं केचित् अदृष्टद्वारतः पुनः । फलं समाप्तिः तत्कामो ह्यधिकारीति जानते ॥ ३ प्रारिप्सितं निमित्तं स्यादाविघ्नेन समापनम् । प्रचयश्च फलं चेति केचिन्नैमित्तिकं विदुः ॥ मङ्गलाचरणे तस्मात्काम्यशङ्का व्यपोद्यते । समाप्तिकामना तु स्यादधिकारिविशेषणम् ॥ ४ परे त्वदृष्टद्वारेण मङ्गलस्य फलं विदुः । विघ्नसंसर्गविरहं समाप्तिस्तु ततः फलम् ॥ ५ चतुर्षु पक्षेष्वेतेषु कंचित्स्वीकृत्य सूरयः । विवदन्ते गुरुलघुविमर्शनविचक्षणाः ॥ प्रथमं परिगृह्णन्ति पक्षं प्राञ्चस्तु तार्किकाः । नव्यनैयायिकानां तु तुरीयः पक्ष ईप्सितः ॥ ६ आद्यपक्षे व्यभीचारं नास्तिकादिनिबन्धने । अन्यथासिद्धिमपि वा विघ्नध्वंसेन ते विदुः ॥ ७ न मङ्गलं महाभाष्ये दृश्यते नापि पाक्षिले । न शाबरे शाङ्करे वा तथेदानींतने क्वचित् ॥ मङ्गलं न निबध्नन्ति ग्रन्थे केचिद्विपश्चितः । कुर्वन्तो वा न कुर्वन्तो न हि तद्वेदितुं क्षमम् ॥

सिद्धान्तविचारः 9 माण्डूक्यगौडपादीयभाष्ये श्रीमति शाङ्करे । यथाबलं नमस्कारो व्यवहार इतीरितः ॥ 8 निबध्नतामयं भावश्शिष्याणां शिक्षणं तथा । महिष्ठमङ्गलावाप्तिः स्वकृतस्यानुकीर्तनात् ॥ 9 दण्ड्यादिभिर्महाकाव्यारम्भस्याङ्गमितीरितम् । सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् ॥ आशीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम् । तदाहुः मङ्गलं काव्यस्यैवाङ्गमिति केचन ॥ 10 तन्मानसं वाचिकं च कायिकं चेत्यपि त्रिधा । समष्टिव्यष्टिरूपेण सर्वत्रास्तीति केचन ॥ एवं मङ्गलतत्त्वार्थविचारो मङ्गलात्मकः । मङ्गलाचारयुक्तानां विनिपातं निवारयेत् ॥ (4) सिद्धान्तविचारः. 1 प्रामाणिक इति ज्ञातो ह्यर्थः सिद्धान्त इष्यते । आवापोद्वापभेदानामिदानीमपि दर्शनात् ॥ 2 अभिमानैकमूलत्वात् अन्योन्यं च विरोधतः । न कश्चिद्यदि सिद्धान्तः नैवं तत्सिद्धयसिद्धितः ॥ सिद्धान्ताभाव एवायं प्रामाणिक इतीष्यते । नेष्यते वा द्विधाऽप्येवं सिद्धः सिद्धान्तसंग्रहः ॥ M.R. 2

10 मानमेयरहस्यश्लोकवार्तिके 3 सर्वं शून्यमिति प्राहुः केचिद्विज्ञानमित्यपि । अपोहवादिनस्सर्वं व्यावृत्तिरिति मेनिरे ॥ 4 सर्वं सदित्येकमिति संख्येकान्तेषु चादिमः । शून्याद्वैतं सदद्वैतं विज्ञानाद्वैतमेव च ॥ शब्दाद्वैतं तथा कालाद्वैतमित्यादि विस्तरः । सर्वं नित्यमनित्यं च द्विसंख्येकान्तवादिनाम् ॥ ज्ञाता ज्ञानं ज्ञेयमिति त्रिसंख्येकान्तवादिनाम् । मानं मेयं मितिर्मातेत्याहुरेवं ततः परे ॥ रूपं संज्ञा च संस्कारः वेदनाऽनुभवस्त्विति । पञ्च स्कन्धा इति प्राहुः सौत्रान्तिकमुखाः परे ॥ जीवो धर्मोऽप्यधर्मश्च पुद्गलः काल एवच । आकाश इति षड्द्रव्यं षडभिज्ञाः प्रचक्षते ॥ एवं सप्तादिसंख्यानामेकान्ता अपि सम्मताः । ततश्च षष्टितन्त्रं यत्संदृष्टं कपिलादिभिः ॥ संख्येकान्तानुरोधेन तत्सांख्यं प्रथितं भुवि । सांख्या हि तत्त्वगणनापरायणतया स्थिताः ॥ प्रबोधचन्द्रोदयोक्तिरप्येवं तत्र साक्षिणी । ज्ञानप्रधानं यच्छास्त्रं तत्सांख्यमिति केचन ॥ तपःप्रधानं शास्त्रं तु पातञ्जलमिति स्थितम् । यमादयस्तपोरूपास्तत्रैव हि विशोधिताः ॥

इत्थं संख्येकान्तवादो हेतुसाध्याविशेषतः । प्रत्यक्षादिप्रमाणानां विरोधाच्च न युज्यते ॥ इत्यक्षपादमुनिना दूषितो न्यायदर्शने । संख्याविवादः प्रथमः तदधीनं हि लक्षणम् ॥ 5 इत्यालोच्यापरे प्राज्ञाः नयसंस्कृतमानसाः । तस्मिन् संख्यां परित्यज्य तत्त्वे संख्यां न्यवेशयन् ॥ ततस्तत्त्वसमासस्तु पञ्चविंशतिधा कृतः । कार्यकारणयोरैक्यं तथा वै धर्मधर्मिणोः ॥ अभेद इति सिद्धान्ताद् द्विसंख्येकान्त एव सः । षट्त्रिंशत्संख्यतत्त्वानि विदुश्शैवागमानुगाः ॥ वैशेषिकादयस्सप्त षोडशेति च मन्वते । पदार्थतत्त्वविज्ञानान्निःश्रेयसमसूत्रयत ॥ यतो विवेककाष्ठैव फलं मानवजन्मनः । तयोपादित्सितजिहासितयोर्हि विनिश्चयः ॥ ततश्शास्त्रोपयुक्तानां पदार्थानां परीक्षणम् । समस्य च विभज्यापि पदार्थानां परीक्षणम् ॥ इति द्विधा प्रवृत्तं स्याच्छास्त्रमित्यवधार्यते । 6 पदमेव पदार्थं तं मन्यन्ते ये च शाब्दिकाः ॥ अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन वेति ये वा विदुः परे ॥

2 मानमेयरहस्यश्लोकवार्तिके वाक्यं वाऽप्यथ वाक्यार्थं प्रतिभां येऽपि मन्वते । तादृग्वादानिरोधाय पदार्थ इति शिक्ष्यते ॥ अतः पदार्थशास्त्रं वा तर्कशास्त्रमपीति वा । प्रख्यायते च तच्छास्त्रं संस्कारस्थैर्यसिद्धये ॥ 7 तत्र बाह्यार्थमात्रस्य तत्त्वं लौकायता विदुः । तथैवान्तरमात्रस्य योगाचारा विजानते ॥ बाह्यमाभ्यन्तरं चेति कापिलाद्याः विदुः परे । पातञ्जलास्त्वीश्वराख्यं पुंविशेषं विजानते ॥ तच्च तत्त्वान्तरमिति प्रायेणेश्वरवादिनः । द्रव्यं पदार्थः केषांचित् सर्वं द्रव्यात्मकं यतः ॥ महासामान्यमन्यैस्तु द्रव्यं सदिति चोच्यते । गुणः पदार्थः केषां चित् गुणवृन्दं यतोऽखिलम् ॥ द्रव्यं गुण इति द्वेधा पदार्थ इति केचन । द्रव्याद्रव्यविभागोऽपि मतेऽस्मिन् पर्यवस्यति ॥ संयोगान्तर्गतः कर्मपदार्थ इति भूषणः । केचित्कर्मानुजानन्तो बहुधाऽत्र विशेरते ॥ जातिः पदार्थः केषां चित् सर्वं जात्यात्मकं विदुः । अपोहवादिनस्सौत्रान्तिकाः व्यावृत्तिवादिनः ॥ द्रव्यं गुणः कर्म चेति केषां चित्रिविधो मतः । त्रयाणामर्थ इत्याख्यां कणादश्चाप्यसूत्रयत् ॥

संस्थानमेव सामान्यं तेषामभिमतं भवेत् । परे द्रव्याद्रव्ययोश्च भेदाभेदं विदुर्बुधाः ॥ प्रायोऽनेकान्तवादोऽयं वैशेषिकविदूषितः । विशेषसमवायौ तु बहुभिर्हि बहिष्कृतौ ॥ अभावाभ्युपगन्तारः दृश्यन्ते बहवो बुधाः । विशिष्य तत्तद्वादेषु तत्त्वं स्पष्टं भविष्यति ॥ 8 अथ नैरात्म्यसिद्धान्तः किंचिदत्र प्रदर्श्यते । पदार्थानां स्वतो रूपं न किंचिद्यवतिष्ठते ॥ इदं वस्तुबलायातं यद्वदन्ति विपश्चितः । यथायथाऽर्थाश्चिन्त्यन्ते विशीर्यन्ते तथातथा ॥ बुद्ध्या विविच्यमानायां स्वभावो नावधार्यते । अतो निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः ॥ विवक्षामात्रतन्त्राः स्युश्शब्दाः तेऽर्थानिबन्धनाः । वस्तुव्यवस्थापनाय व्यवहारा न हीशते ॥ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ इत्याहुरपरे प्राज्ञाः ते वै शाब्दिकसौगताः । विचित्राः पुमभिप्रायाः वर्तन्ते देशकालयोः ॥ 9 विशेषवादिनः केचित्केचित्सामान्यवादिनः । तदैक्यवादिनः केचित्केचित्तद्भेदवादिनः ॥

14 मानमेयरहस्यश्लोकवार्तिके साधने बाधने चापि न च तत्र बलाबलम् । कदाचिन्निश्चितं कैश्चित्तस्मान्मध्यस्थता वरम् ॥ इत्यन्यानन्यते तत्र स्तो न स्तश्चेति कीर्त्यते । इति तादात्म्यमिच्छन्ति कुमारिलमुखाः परे ॥ 10 अनात्मवादिनः केचित्केचिदात्मैकवादिनः । अद्वैतवादिनः केचित्केचित्तु द्वैतवादिनः ॥ जीवैकवादिनः केचित्केचिद्ब्रह्मैकवादिनः । तादात्म्यवादिनः केचित्केचित्तद्भेदवादिनः ॥ स्याद्भावाभावयोरेवं कार्यकारणयोरपि । स्यान्नित्यानित्ययोश्चैवं तथा वै मानमेययोः ॥ स्याद्द्रव्याद्रव्ययोरेवं तथा वै धर्मधर्मिणोः । एषैव रीतिस्सर्वेषु चित्रा मानुषशेमुषी ॥ 11 सदसत्सदसच्चेति यस्य पक्षो न विद्यते । उपालम्भश्चिरेणापि तस्य वक्तुं न शक्यते ॥ परस्परं मत्सरिणः प्रवादास्सकला अपि । इच्छन् सर्वत्राविशेषं आर्हतोऽपक्षपात्यसौ ॥ स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् । परस्परं विरुद्ध्यन्ते तैरयं न विरुध्यते ॥ एवं हि स्वस्वसिद्धान्तसमुत्कर्षं विदुः क्रमात् । सौगता आर्हताश्चापि तथौपनिषदा अपि ॥

चार्वाकदर्शनम् एवं स्वीयोत्कर्षवादं सर्वे दार्शनिका विदुः । सर्वत्रैतादृशी रीतिरित्येषा दिक्प्रदर्शिता ॥ (5) चार्वाकदर्शनम् 1 तत्र लौकायतं लोकसिद्धं व्याख्यानपेक्षितम् । तथापि संगतिज्ञप्त्यै प्राचामुक्तिरनूद्यते ॥ लौकायतं शास्त्रमेव प्रमाणं सर्वथा मतम् । पुमर्थौ यत्रार्थकामौ प्रत्यक्षैकप्रमाणता ॥ प्रत्यक्षाल्लोकशब्दार्थादधिकं च तदायतम् । इति बार्हस्पत्यसूत्रभाष्यकृद्भिरुदीरितम् ॥ इति सर्वार्थसिद्धौ श्रीवेदान्तार्यैरनूदितम् । एतेन सूत्रभाष्यादिसंप्रदायोऽपि गम्यते ॥ 2 तत्र चत्वारि भूतानि भूमिवार्यनलानिलाः । चतुर्भ्यः खलु भूतेभ्यः चैतन्यमुपजायते ॥ किण्वादिभ्यस्समेतेभ्यः द्रव्येभ्यो मदशक्तिवत् । अहं स्थूलः कृशो गौरः इति साक्षात्प्रतीतितः ॥ देहे स्थौल्यादियोगाच्च स एवात्मा न चापरः । बुद्धेश्च देहधर्मत्वे देहस्य क्षणिकत्वतः ॥ तस्या आशुविनाशोऽपि सम्यगेवोपपद्यते । बुद्धेर्नित्यात्मधर्मत्वे स्याद्बुद्धिरपि शाश्वती ॥

16 मानमेयरहस्यश्लोकवार्तिकें बुद्ध्यन्तरेण नाशादिकल्पनं दुरुपद्रवम् । तथा बुद्धेर्गुणत्वं वा द्रव्यत्वं कैश्चिदिष्यते ॥ तद्भूतस्पन्दधीवादमसत्कर्तुमिति स्थितम् । आत्मनो द्रव्यता कैश्चिदिष्यते नित्यताऽऽप्तये ॥ पर्य्यायतस्त्वितरथा क्षणिको देहवद्भवेत् । नित्यसत्त्वा भवन्त्येके नित्यासत्त्वाश्च केचन ॥ विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः । अग्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः ॥ केनेदं चित्रितं तस्मात् स्वभावात्तद्व्यवस्थितिः । तत्तथैव स्वीक्रियते यद्यथैव प्रतीयते ॥ प्रामाणिकं स्वरूपं यत् स्वभावस्स्यात्स एव हि । मृत्युरेवापवर्गस्स्यादिति वाचस्पतेर्मतम् ॥ न स्वर्गो नापवर्गो वा विद्यते पारलौकिकः । 3 यदि गच्छेत्परं लोकं देहादेष विनिर्गतः ॥ कस्माद्भूयो न चायाति बन्धुस्नेहसमाकुलः । यावज्जीवं सुखं जीवेत् नास्ति मृत्योरगोचरः ॥ भस्मीभूतस्य देहस्य पुनरागमनं कुतः । यावज्जीवं चाग्निहोत्रं जुहुयादिति वै श्रुतिः ॥ ब्राह्मणस्य च देहोऽयं नोपभोगाय जायते । इह क्लेशाय महते प्रेत्यानन्तसुखाय च ॥

चार्वाकदर्शनम् इत्यादि वचनं सर्वं स्मृतमास्थानिवृत्तये । शरीरमाद्यं धर्मस्य साधनं चापि कीर्तितम् ॥ महता पुण्यपण्येन क्रीतेयं कायर्नौस्त्वया । गन्तुं दुःखोदधेः पारं त्वर यावन्न भिद्यते ॥ आयुरारोग्यमैश्वर्यं योगाङ्गं चेति कीर्त्यते । अरोगदृढगात्रत्वं सुखमुत्साहकारणम् ॥ आत्मनां नित्यतायां तु नैवास्थायाः परिक्षयः । तस्माद्देहात्मसिद्धान्तः द्रुतं रागविभञ्जकः ॥ 4 अभ्यास एव सर्वत्र सुखदुःखनियामकः । मनःप्रीतिकरः स्वर्गः नरकः तद्विपर्ययः ॥ देशकालदशाभिन्नस्वभावेन व्यवस्थितः । तस्यैव परिभाषेयं पापं पुण्यमिति द्विधा ॥ अग्नेश्शीतेन तोयस्य तृषा भक्तस्य च क्षुधा । क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥ सुखाभावो दुःखमिति व्यवहारस्य गोचरः । आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः॥ 5 प्रकृतिं तद्विकारान्वा देहान्तान् ये तु मन्वते । आत्मानमिति ते ख्याताः तौष्टिका इति कापिलैः॥ पञ्चेन्द्रियविरक्तास्ते प्रकृत्यादौ लयं गताः । भवामेति च तानेव त्वात्मेत्येवमुपासते ॥ M.R. 3

18 मानमेयरहस्यश्लोकवार्तिके तत्त्वाभ्यासान्नास्मि न मे किंचिदित्येव केवलम् ज्ञानमुत्पद्यते पश्चात् स्वयं सह विनश्यति ॥ विज्ञानघन एवैभ्यो भूतेभ्यश्च समुत्थितः । तानेवानुविनश्येदित्येव ब्राह्मणदर्शनम् ॥ येयं प्रेत इति श्रौते वचने नायमित्यपि । अनादिर्विचिकित्सेति सिद्धान्तः गीष्पतेरसौ ॥ विवृतं बहुधा सत्त्वं चैतन्यं नास्ति किंचन । इति श्रुतिः वाक्यपद्व्य(ख्यायां समुदाहृता ॥ 6 मज्जामस्थामथ प्लीहां यकृतां शकृतामपि । पूर्णाः स्नायुसिरास्यूताः प्रजाश्चर्मप्रसेविकाः ॥ मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतिः । देहः पटलपर्यन्तबिन्दुवत् क्षणभङ्गुरः ॥ सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते नराः पापानि कुर्वते ॥ यदि नामास्य देहस्य यदन्तस्तद्बहिर्भवेत् । दण्डमादाय लोकोऽयं शुनः काकांश्च वारयेत् ॥ दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा । यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ अकीर्तिर्यस्य कीर्त्येत लोके भूतस्य कस्य चित् । पतत्येवाधमान् लोकान् यावच्छब्दस्स कीर्त्यते ॥

सौगतदर्शनम् नरः पतितकायोऽपि यशःकायेन जीवति । श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ॥ परोपकारः पुण्याय पापाय परपीडनम् । इत्येव लक्षणं पुण्यपापयोस्सर्वसम्मतम् ॥ परश्शतैरेवमादिवचोभिरिह जीवता । आस्था निवर्तनीयाऽऽदौ आत्मन्याशुविनाशिनि जगतामुपकाराय वर्तितव्यं कृतात्मना । इदमेव हि चार्वाकदर्शनं रागभञ्जकम् ॥ देहपर्यन्तात्मवाद इति तत्त्वविदो विदुः । 7 स्थिरदेहविदोऽप्येके जीवन्मुक्तिं समाश्रिताः । ते रसेश्वरसिद्धान्तनिष्ठाः तद्धृदयं त्विदम् ॥ आकाशस्य स्थितिर्यावद्यावच्च जगतः स्थितिः । तावन्मम स्थितिर्भूयाज्जगत्पापानि निघ्नतः ॥ इति बुद्धेन कथितमिति भास्करभाषितम् । तत् स्थेयं पुरुषेणेह जगतामुपकुर्वता ॥ बाह्यं केवलमेतत्स्यात् बौद्धं केवलमान्तरम् । सिद्धान्तस्यास्य संक्षेपः तत्तदुक्त्या प्रकाश्यते ॥ (6) सौगतदर्शनम्. 1 आत्मग्रहो महामोहः प्रथमस्तन्निवृत्तितः । मम किं नाहमेवेति विरंस्यति ममग्रहः ॥

२० मानमेयरहस्यश्लोकवार्तिक तस्मादादावहंकारममकारप्रहाणतः । नैरात्म्यदर्शनं सिद्धं निर्वाणद्वारमुत्तमम् ॥ आत्मा यद्यप्रतीत्य स्यात् क्लेशानां नैव संक्षयः । अतो नैरात्म्यसिद्धान्तः बौद्धानामिति निर्णयः ॥ २ दुःखं स्वलक्षणं शून्यं क्षणिकं सकलं जगत् । इत्येवं भावनां सत्यां सौगतास्समुपादिशन् ॥ अनुकूलं चानुगतं सत्यं स्थिरमिति भ्रमाः । पूर्वोक्तभावनाश्याः भवबन्धस्य हेतवः ॥ ३ यस्मिन्नेव हि सन्ताने आहिता कर्मवासना । फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ॥ कुसुमे बीजपूरादेः यल्लाक्षाद्युपसिच्यते । शक्तिराधीयते तत्र काचित्तां किं न पश्यसि ॥ सजातीयाः क्रमोत्पन्नाः प्रत्यासन्नाः परस्परम् । व्यक्तयस्तासु संतानः स चैक इति गीयते ॥ क्षणाभेदेऽपि तद्द्वारात्मकमासविभेदतः । धर्माः व्यवस्थिता यद्वत् तथा दुःखव्यवस्थितिः॥ ४ रागादिज्ञानसंतानवासनोच्छेदसंभवा । चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥ माहायानिकनाम्ना च विश्रुता ये बुधोत्तमाः । ते माध्यमिकनाम्ना च प्रथिताश्शून्यवादिनः ॥

देशना लोकनाथानां सत्त्वाशयवशानुगाः । भिद्यन्ते बहुधा लोके उपायैर्बहुधा किल ॥ गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणाः । भिन्ना हि देशना भिन्ना शून्यताऽद्वयलक्षणा ॥ द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥ 5 चतुःप्रस्थानका बौद्धाः ख्याता वैभाषिकादयः । अर्थो ज्ञानान्वितो वैभाषिकेण बहुमन्यते ॥ सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः । आकारसहिता बुद्धिर्योगाचारस्य सम्मता ॥ केवलां संविदं स्वस्थां मन्यन्ते मध्यमागमाः । प्रत्यक्षमनुमानं च प्रमाणद्वितयं विदुः ॥ 6 दुःखं समुदयं चैव निरोधो मार्ग एव च । आर्यसत्याख्यया बौद्धं तत्त्वमस्ति चतुर्विधम् ॥ दुःखं प्रसिद्धं तन्मूलमपि तच्छब्दशब्दितम् । दुःखहेतुस्समुदयः यः प्रत्ययपदाभिधः ॥ निरोधो मुक्तिरेव स्यात् शुद्धज्ञानमहोदयः । मार्गो भावनया तत्त्वज्ञानं तद्धेतुरुच्यते ॥ यद्भास्करेण भाष्ये स्वे त्वार्यसत्यं विभागशः । निरूपितं तदप्यत्र विशदीक्रियते यथा ॥

22 मानमेयरहस्यश्लोकवार्तिके आद्यं समुदयाख्यं स्यात् सर्वमुत्पत्तिमत् स्थितम्। इति यन्निर्णयज्ञानं तदेव स्यात् स्वलक्षणम् ॥ क्षणिकं सर्वमिति यत् तन्निरोधाख्यमुच्यते । सर्वं दुःखमिति ज्ञानं दुःखसत्यं विनिश्चितम् ॥ सर्वं शून्यमिति ज्ञानं मार्गसत्यं निरात्मकम् । इति भावयतो रागहानौ नाशो ह्यहेतुकः ॥ प्रायश्शास्त्रं सर्वमपि चतुर्धैव विभज्यते । रोगस्तद्धेतुरारोग्यं तद्धेतुश्चेति वैद्यके ॥ भूतं च भौतिकं चैव चित्तं चैत्तं च कृत्स्नशः । उत्पाद्यं क्षणिकं दुःखं निस्स्वभावं निरूपितम् ॥ 7 द्विधस्समुदयश्च स्यात् आद्यो हेतुनिबन्धनः । अनन्तरः प्रत्ययोपनिबन्धन इतीरितः ॥ यदिदं प्रत्ययफलमिति संक्षिप्तसूत्रणम् । तत्प्रतीत्यसमुत्पादलक्षणं बुद्धदेशितम् ॥ स प्रतीत्यसमुत्पादः बाह्यश्चाभ्यन्तरो द्विधः । भूतभौतिकमाद्यं स्यात् चित्तचैत्तमनन्तरम् ॥ भूतं प्रसिद्धं देहादिर्विषयो भौतिको मतः । पञ्चस्कन्धी चित्तचैत्तं तद्विभागोऽवगम्यताम् ॥ विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च । प्रवृत्त्यालयविज्ञानधारा विज्ञानमुच्यते ॥

सौगतदर्शनम् 23 चित्तावस्था वेदना स्यात् सुखदुःखादिलक्षणा । शब्दसंसर्गयोग्यार्थभासः संज्ञेति कीर्त्यते ॥ रागद्वेषादिसंतानः संस्कारस्कन्धसंज्ञितः । रूपस्कन्धः सविषयाणीन्द्रियाण्युच्यते बुधैः ॥ 8 द्विप्रतीत्यसमुत्पादे द्विधस्समुदयो मतः । बीजादङ्कुरपत्रादिफलपर्यन्तसन्ततौ ॥ नास्ति कस्यापि चैतन्यं नान्यो वाऽत्राधितिष्ठति । कार्यकारणभावस्य नियमो न न दृश्यते ॥ एष प्रतीत्योत्पादे स्याद्बाह्ये हेतुनिबन्धनः । अत्रैवायं प्रत्ययोपनिबन्धोऽप्यवगम्यताम् ॥ अङ्कुरो जायते बीजात् षड्धातुसमवायतः । ऋतुश्च पञ्च भूतानि षड्धातव इति स्मृताः ॥ संगृह्णाति क्षितिर्बीजं अङ्कुरः कठिनस्ततः । जलधातुः स्नेहयति तेजो बीजं पचेदपि ॥ वायुधातुर्निर्हरति निर्गच्छति ततोऽङ्कुरः । आकाशधातुर्बीजस्य त्वनावरणकृत्यकृत् ॥ ऋतुधातोः परीणामः प्रसिद्धोऽङ्कुरबीजयोः । नातिरिक्तश्चेतनोऽत्र यः स्यात्कारकचक्रगः ॥ 9 एवमाध्यात्मिकेऽप्यूह्यः यस्स्याद्धेतुनिबन्धनः । अविद्यया हि संस्काराः रागद्वेषादिलक्षणाः ॥

24 मानमेयरहस्यश्लोकवार्तिके जायते तैर्हि विज्ञानं नामरूपं ततो भवेत् । स्यात् षडायतनं तस्मात् स्पर्शस्तस्माद्भवेदपि । ततश्च वेदनातृष्णाभवजातिजरादयः । स्पष्टा रागादयस्तेभ्यः चित्ताभिज्वलनात्मकम् ॥ विज्ञानं तच्च गर्भस्थे चित्ते विषयसंजनम् । चित्तचैत्तात्मकं नामरूपं, आयतनं पुनः ॥ षडिन्द्रियाणि देहस्तु स्पर्शशब्देन कीर्त्यते । स्पृष्टे हि वेदनातृष्णे धर्मोऽधर्मो भवो मतः ॥ स्कन्धप्रादुर्भवो जातिः प्रसिद्धा हि जरादयः । तथाऽत्रैव प्रत्ययोपनिबन्धोऽप्यवगम्यताम् ॥ क्षित्यप्तेजोवायुनभोविज्ञानसमवायतः । कायस्य तत्र काठिन्यं पृथिवीधातुलक्षणम् ॥ अब्धातुस्तं स्नेहयति तेजोधातुः तनुस्थितम् । पीताशितं पाचयति वायुः श्वासयति त्वमुम् ॥ आकाशोऽन्तस्सुषिरकृत् विज्ञानं पुनरारभेत् । नामरूपाङ्कुरं तेन धातवस्सकला इमे ॥ उत्पादयन्ति सकलं कार्यं नात्रापि चेतनः । सोऽयं विज्ञानधातुर्यत्सकार्यं सास्रवं मनः ॥ आलम्बनं चाधिपतिः समनन्तर एव च । सहकारीति चत्वारः प्रत्ययाः ज्ञानहेतवः ॥

सौगतदर्शनम् 25 प्रत्ययांश्चतुरस्त्वेतान् प्रत्येत्योत्पत्तियोगतः । शब्दाद्या बाह्यविषयाः सुखाद्या आन्तरा मताः॥ तत्र नीलालम्बनतः चित्तं स्यान्नीललक्षणम् । चक्षुराद्याधिपत्येन प्रतिरूपव्यवस्थितिः ॥ अनन्तरप्रत्ययेन बोधरूपत्वमश्नुते । आलोकादिकसाहाय्यादन्धकारादिसंक्षयः ॥ अर्थसत्ताविवादेऽपि प्रक्रियेयं समा मता । चतुर्णामपि वै मन्दमध्यमोत्तमयायिनाम् ॥ यस्मिन् सति समुत्पादो यस्य तत्तस्य कारणम् । इत्याहुस्सौगताः यस्मिन् सत्येवेतीतरे विदुः ॥ कारणं द्विविधं हेतुः प्रत्ययश्चेति निश्चितम् । प्रधानकारणं हेतुः प्रत्ययास्सहकारिणः ॥ तृतीयमिति यत्प्राहुर्निमित्तं न्यायवादिनः । तद्बुद्धिमदधिष्ठानं तदेवैतैर्निषिध्यते ॥ 10 यद्यपि क्षणिका भावाः कार्यकारणलक्षणाः । तथाप्यविद्याशक्त्यैव तत्सर्वमुपपद्यते ॥ सैषाऽविद्या स्थायिजातिसुखवस्तुत्वबुद्धयः । विशेषे क्षणिके दुःखे शून्येऽप्यर्थे स्वभावतः ॥ भवन्ति रागद्वेषाद्याः ताभिस्संस्कारलक्षणाः । ते सूक्ष्मं चित्तसंतानं मातृकुक्षिं नयन्ति तम् ॥ M.R. 4