मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 58, कुल 672 में से
संदर्भ में पढ़ें16 मानमेयरहस्यश्लोकवार्तिकें बुद्ध्यन्तरेण नाशादिकल्पनं दुरुपद्रवम् । तथा बुद्धेर्गुणत्वं वा द्रव्यत्वं कैश्चिदिष्यते ॥ तद्भूतस्पन्दधीवादमसत्कर्तुमिति स्थितम् । आत्मनो द्रव्यता कैश्चिदिष्यते नित्यताऽऽप्तये ॥ पर्य्यायतस्त्वितरथा क्षणिको देहवद्भवेत् । नित्यसत्त्वा भवन्त्येके नित्यासत्त्वाश्च केचन ॥ विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः । अग्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः ॥ केनेदं चित्रितं तस्मात् स्वभावात्तद्व्यवस्थितिः । तत्तथैव स्वीक्रियते यद्यथैव प्रतीयते ॥ प्रामाणिकं स्वरूपं यत् स्वभावस्स्यात्स एव हि । मृत्युरेवापवर्गस्स्यादिति वाचस्पतेर्मतम् ॥ न स्वर्गो नापवर्गो वा विद्यते पारलौकिकः । 3 यदि गच्छेत्परं लोकं देहादेष विनिर्गतः ॥ कस्माद्भूयो न चायाति बन्धुस्नेहसमाकुलः । यावज्जीवं सुखं जीवेत् नास्ति मृत्योरगोचरः ॥ भस्मीभूतस्य देहस्य पुनरागमनं कुतः । यावज्जीवं चाग्निहोत्रं जुहुयादिति वै श्रुतिः ॥ ब्राह्मणस्य च देहोऽयं नोपभोगाय जायते । इह क्लेशाय महते प्रेत्यानन्तसुखाय च ॥