मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 57, कुल 672 में से
संदर्भ में पढ़ेंचार्वाकदर्शनम् एवं स्वीयोत्कर्षवादं सर्वे दार्शनिका विदुः । सर्वत्रैतादृशी रीतिरित्येषा दिक्प्रदर्शिता ॥ (5) चार्वाकदर्शनम् 1 तत्र लौकायतं लोकसिद्धं व्याख्यानपेक्षितम् । तथापि संगतिज्ञप्त्यै प्राचामुक्तिरनूद्यते ॥ लौकायतं शास्त्रमेव प्रमाणं सर्वथा मतम् । पुमर्थौ यत्रार्थकामौ प्रत्यक्षैकप्रमाणता ॥ प्रत्यक्षाल्लोकशब्दार्थादधिकं च तदायतम् । इति बार्हस्पत्यसूत्रभाष्यकृद्भिरुदीरितम् ॥ इति सर्वार्थसिद्धौ श्रीवेदान्तार्यैरनूदितम् । एतेन सूत्रभाष्यादिसंप्रदायोऽपि गम्यते ॥ 2 तत्र चत्वारि भूतानि भूमिवार्यनलानिलाः । चतुर्भ्यः खलु भूतेभ्यः चैतन्यमुपजायते ॥ किण्वादिभ्यस्समेतेभ्यः द्रव्येभ्यो मदशक्तिवत् । अहं स्थूलः कृशो गौरः इति साक्षात्प्रतीतितः ॥ देहे स्थौल्यादियोगाच्च स एवात्मा न चापरः । बुद्धेश्च देहधर्मत्वे देहस्य क्षणिकत्वतः ॥ तस्या आशुविनाशोऽपि सम्यगेवोपपद्यते । बुद्धेर्नित्यात्मधर्मत्वे स्याद्बुद्धिरपि शाश्वती ॥