मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 53, कुल 672 में से
संदर्भ में पढ़ेंइत्थं संख्येकान्तवादो हेतुसाध्याविशेषतः । प्रत्यक्षादिप्रमाणानां विरोधाच्च न युज्यते ॥ इत्यक्षपादमुनिना दूषितो न्यायदर्शने । संख्याविवादः प्रथमः तदधीनं हि लक्षणम् ॥ 5 इत्यालोच्यापरे प्राज्ञाः नयसंस्कृतमानसाः । तस्मिन् संख्यां परित्यज्य तत्त्वे संख्यां न्यवेशयन् ॥ ततस्तत्त्वसमासस्तु पञ्चविंशतिधा कृतः । कार्यकारणयोरैक्यं तथा वै धर्मधर्मिणोः ॥ अभेद इति सिद्धान्ताद् द्विसंख्येकान्त एव सः । षट्त्रिंशत्संख्यतत्त्वानि विदुश्शैवागमानुगाः ॥ वैशेषिकादयस्सप्त षोडशेति च मन्वते । पदार्थतत्त्वविज्ञानान्निःश्रेयसमसूत्रयत ॥ यतो विवेककाष्ठैव फलं मानवजन्मनः । तयोपादित्सितजिहासितयोर्हि विनिश्चयः ॥ ततश्शास्त्रोपयुक्तानां पदार्थानां परीक्षणम् । समस्य च विभज्यापि पदार्थानां परीक्षणम् ॥ इति द्विधा प्रवृत्तं स्याच्छास्त्रमित्यवधार्यते । 6 पदमेव पदार्थं तं मन्यन्ते ये च शाब्दिकाः ॥ अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन वेति ये वा विदुः परे ॥