मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 52, कुल 672 में से
संदर्भ में पढ़ें10 मानमेयरहस्यश्लोकवार्तिके 3 सर्वं शून्यमिति प्राहुः केचिद्विज्ञानमित्यपि । अपोहवादिनस्सर्वं व्यावृत्तिरिति मेनिरे ॥ 4 सर्वं सदित्येकमिति संख्येकान्तेषु चादिमः । शून्याद्वैतं सदद्वैतं विज्ञानाद्वैतमेव च ॥ शब्दाद्वैतं तथा कालाद्वैतमित्यादि विस्तरः । सर्वं नित्यमनित्यं च द्विसंख्येकान्तवादिनाम् ॥ ज्ञाता ज्ञानं ज्ञेयमिति त्रिसंख्येकान्तवादिनाम् । मानं मेयं मितिर्मातेत्याहुरेवं ततः परे ॥ रूपं संज्ञा च संस्कारः वेदनाऽनुभवस्त्विति । पञ्च स्कन्धा इति प्राहुः सौत्रान्तिकमुखाः परे ॥ जीवो धर्मोऽप्यधर्मश्च पुद्गलः काल एवच । आकाश इति षड्द्रव्यं षडभिज्ञाः प्रचक्षते ॥ एवं सप्तादिसंख्यानामेकान्ता अपि सम्मताः । ततश्च षष्टितन्त्रं यत्संदृष्टं कपिलादिभिः ॥ संख्येकान्तानुरोधेन तत्सांख्यं प्रथितं भुवि । सांख्या हि तत्त्वगणनापरायणतया स्थिताः ॥ प्रबोधचन्द्रोदयोक्तिरप्येवं तत्र साक्षिणी । ज्ञानप्रधानं यच्छास्त्रं तत्सांख्यमिति केचन ॥ तपःप्रधानं शास्त्रं तु पातञ्जलमिति स्थितम् । यमादयस्तपोरूपास्तत्रैव हि विशोधिताः ॥