भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 67, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 67

सौगतदर्शनम् 25 प्रत्ययांश्चतुरस्त्वेतान् प्रत्येत्योत्पत्तियोगतः । शब्दाद्या बाह्यविषयाः सुखाद्या आन्तरा मताः॥ तत्र नीलालम्बनतः चित्तं स्यान्नीललक्षणम् । चक्षुराद्याधिपत्येन प्रतिरूपव्यवस्थितिः ॥ अनन्तरप्रत्ययेन बोधरूपत्वमश्नुते । आलोकादिकसाहाय्यादन्धकारादिसंक्षयः ॥ अर्थसत्ताविवादेऽपि प्रक्रियेयं समा मता । चतुर्णामपि वै मन्दमध्यमोत्तमयायिनाम् ॥ यस्मिन् सति समुत्पादो यस्य तत्तस्य कारणम् । इत्याहुस्सौगताः यस्मिन् सत्येवेतीतरे विदुः ॥ कारणं द्विविधं हेतुः प्रत्ययश्चेति निश्चितम् । प्रधानकारणं हेतुः प्रत्ययास्सहकारिणः ॥ तृतीयमिति यत्प्राहुर्निमित्तं न्यायवादिनः । तद्बुद्धिमदधिष्ठानं तदेवैतैर्निषिध्यते ॥ 10 यद्यपि क्षणिका भावाः कार्यकारणलक्षणाः । तथाप्यविद्याशक्त्यैव तत्सर्वमुपपद्यते ॥ सैषाऽविद्या स्थायिजातिसुखवस्तुत्वबुद्धयः । विशेषे क्षणिके दुःखे शून्येऽप्यर्थे स्वभावतः ॥ भवन्ति रागद्वेषाद्याः ताभिस्संस्कारलक्षणाः । ते सूक्ष्मं चित्तसंतानं मातृकुक्षिं नयन्ति तम् ॥ M.R. 4

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 67, कुल 672 में से · BharatKosha