मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 68, कुल 672 में से
संदर्भ में पढ़ें८० मानमेयरहस्यश्लोकवार्तिके स नीयते निराधारश्चापि देशान्तरं स्वयम् । ज्वालाबुद्बुदवद्वृत्तिरन्तरालेऽस्य सम्मता ॥ प्रतिक्षणं जायते यो दीपसंतानवत्सदा । स ग्राहकाभिमानेनारूढ आत्मेति कीर्त्यते ॥ गर्भं गतस्ततस्सोऽयं विज्ञानत्वं समश्रुते । चित्ताभिज्वलनं नाम, संसर्गो विषयैरसौ ॥ उत्तरोत्तरविज्ञानं स्थूलं चित्तमितीर्यते । सह तेनोत्पत्तिनाशभाजश्चैत्ता उदाहृताः ॥ स्पर्शश्च वेदना संज्ञा चेतना च वितर्कणा । विचारः प्रीतिरैकाग्र्यं श्रद्धा वीर्यं स्मृतिस्तथा ॥ प्रज्ञादयश्च धर्मा ये कुशलाकुशलात्मकाः । त एते चित्तचैत्तास्स्युः ये नामाख्या इतीरिताः ॥ ततः पृथिव्यादिरूपिद्रव्यं तत्पुञ्जलक्षणम् । ततस्त्विन्द्रियषट्कं स्यात् षडायतनसंज्ञितम् ॥ ततः स्पर्शाभिधः कायः ततः स्युः वेदना स्पृहा । उपादानं भवो जातिः जरा मरणमेव च ॥ शोकश्च परिवेदश्च दुःखं दौर्मनसं तथा । मदमानादयश्चोपक्लेशाः प्रादुर्भवन्त्यपि ॥ स्पृहा वाक्कायचेष्टा स्यात् धर्माधर्मौ भवो मतः । शुभाशुभा वासना सा चित्तसन्तानवर्तिनी ॥