मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 468, कुल 672 में से
संदर्भ में पढ़ें426 मानमेयरहस्यश्लोकवार्तिके बोध्यबोधकभावोऽत्र संबन्धोऽन्यत्रचापरः । व्याप्यव्यापकभावस्स्यात् धीद्वारं तु द्वयोस्समम् । ३ तत्राकाङ्क्षादिमद्वाक्यतादृग्वाक्यार्थयोरपि । स्वभावाद्यदि संसर्गः नियमो व्याप्तिरेव सः ॥ इति वैशेषिकस्वान्तमेष नैयायिकाशयः । संकेतरूपस्संबन्धः संबन्धत्वेन भासते ॥ न साहचर्यरूपेण तेन न व्याप्तिलक्षणः । साहचर्यं च संबन्धः संमतो लिङ्गलिङ्गिनोः ॥ शब्दार्थयोश्च समयस्सामग्रीभेदतो भिदा । वह्निः क्षुरं मोदकश्चेत्यादिशब्दप्रयोगतः ॥ दाहनं पाटनं च स्यात्पूरणं सहितौ यदि । साहचर्यं नैव तस्मात् शब्दो मानान्तरं मतम् । मीमांसकानां सिद्धान्ते नियमो व्याप्तिरुच्यते । शक्तिर्बोधकता, तेन नानुमानं प्रसज्यते ॥ संबन्धग्रहणं चापि त्वनन्तैर्न च संभवि । अपूर्वोऽपि च वाक्यार्थः कदाचिदनुभूयते ॥ येचान्विताभिधानस्य वादिनः तन्मते पुनः । गृहीत एव संबन्ध इति शङ्का भवेदपि ॥ शब्दो मानान्तरं लोकवेदसाधारणं मतम् । वर्णराशिः क्रमव्यक्तः पदमित्यभिधीयते ॥