मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 467, कुल 672 में से
संदर्भ में पढ़ेंशब्दप्रामाण्यवादः प्रसिद्धा हीन्द्रियं लिङ्गं अभिधायकमित्यपि । एवमन्येऽपि गमकविशेषाः तत्र चेन्द्रियम् ॥ सत्तामात्रेण गमयत्यर्थं सन्निहितं पुनः । यत्तु व्याप्यतया ज्ञायमानं लिङ्गं तदुच्यते ॥ गमकं व्यापकस्यैतत्, यत्त्वेतदभिधायकम् । गमकत्वस्यावगमादेव तद्गमयत्यदः ॥ तत्संज्ञापरपर्यायमभिधायकतात्मकम् । संबन्धमध्यवस्यन्ति नान्यमित्यवधार्यते ॥ औत्पत्तिकस्स शब्दस्यार्थेनेत्येष हि विश्रुतः । यस्त्रिप्रमाणक इति चोपमाने निरूपितः ॥ वाक्यार्थे तु पदार्थेभ्यस्संबन्धानुभवाहते । बुद्धिरुत्पद्यते तेन भिन्नाऽसावक्षबुद्धिवत् ॥ संकेतमूलो वेदस्स्याच्चेष्टावद्बोधकत्वतः । शब्दत्वाद्वा देवदत्तनिन्दादिवदित्यसत् ॥ संकेतयितुरज्ञानात्संप्रदायेऽपि संतते । बोधकत्वं ततो नित्यमनुमानं तु बाधितम् ॥ यथा वह्नौ दाहकता यथा बोधकतेन्द्रिये । तथा शब्दे गमकता दृष्टा स्वाभाविकी च सा तस्याश्च ग्रहणं चापि शब्दे लिङ्गवदिष्यते । तथाऽपि शब्दो नार्थस्य लिङ्गं भवितुमर्हति ॥ M.R. 54