मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 470, कुल 672 में से
संदर्भ में पढ़ें428 मानमेयरहस्यश्लोकवार्तिके आप्तवादाविसंवादाच्छब्दः प्रामाण्यमृच्छति । पूर्वं वाक्यं लिङ्गभूतं वक्तुर्ज्ञानावधारणे ॥ वक्तृज्ञानप्रसूतं हि वाक्यं तत्कार्यमिष्यते । कार्यात्कारणसिद्धिश्च सर्वेषामपि सम्मता ॥ ततश्च पुंवाक्यमात्रं न शास्त्रमभिधीयते । नन्वर्थ एव प्रथमं पुंवाक्येनावगम्यते ॥ अन्यथा तु कथं वक्तुः धीर्विशिष्टाऽनुमीयते । अर्थेनैव विशेषो हि निराकारतया धियाम् ॥ नचाप्रतीतेनार्थेन विशेषो ह्यवगम्यते । अत्र ब्रूते यथार्थत्वशङ्कयाऽर्थो न निश्चितः ॥ अनिश्चितो नहि ज्ञात इति तात्पर्यसंग्रहः । वाक्याद्वाक्यार्थानुमानवादिनस्सौगतानुगाः ॥ वैशेषिकाश्च गुरवः वक्तृज्ञानानुमाविदः । तत्रापि गुरवो लोकवाक्यमात्रानुमाविदः ॥ अपौरुषेयमेवैकं शास्त्रं वाक्यचयात्मकम् । तत्रापि चोदना शास्त्रं नाभिधेति विनिर्णयः ॥ आप्तवादाविसंवादसामान्यादनुमानतः । अभिन्नत्वमनूद्येत्थं दूषितं श्लोकवार्तिके ॥ आप्तवादाविसंवादादत्रचेदनुमानता । निर्णयस्तावता सिद्धयेद्बुद्धयुत्पत्तिर्न तत्कृता ॥