मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 471, कुल 672 में से
संदर्भ में पढ़ेंवाक्यार्थश्चान्य एवेति ज्ञातः पूर्वतरं ततः ॥ तत्रचेदाप्तवादेन सत्यत्वमनुमीयते । वाक्यार्थप्रत्ययश्चात्र कथं वाऽनुमितिस्त्विति ॥ 7 अलंकारविदः प्राहुश्शब्दानां विषयो द्विधा । प्रतिपाद्योऽनुमेयश्च प्रथमोऽपि द्विधा मतः ॥ वाच्यो व्यङ्ग्यश्चेति ततः विवक्षालक्षणः परः । विवक्षाविषयत्वे तु शब्दानां लिङ्गता मता ॥ व्यङ्ग्यस्वरूपे विषये शाब्दता स ध्वनिर्मतः । असौ वादः पूर्वमुक्तवादसंस्कारमूलकः ॥ (88) शब्दप्रमाणपरिकरः. 1 आप्तवाक्यं तु शब्दः स्यादाप्तत्वमिदमुच्यते । प्रतारणाद्यप्रयोज्यहिताहितमनीषयोः ॥ प्रयोजकत्वमाप्तत्वं समानं वेदलोकयोः । इति कैश्चिन्निरुक्तं स्यात् अन्यैरपरथा यथा ॥ यदनाप्तानुच्चरितं वाक्यं शब्द स्स इष्यते । प्रमाणं तल्लोकवेदसाधारणमिति स्थितम् ॥ 2 अर्थावबोधकशब्द इत्याहुस्स्फोटवादिनः । श्रोत्रग्राह्यश्शब्द इति तत्प्रतिद्वन्द्विदृष्टिः ॥