भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 472, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 472

430 मानमेयरहस्यश्लोकवार्तिके ३ आप्तवाक्यं शब्द इति प्राहुर्न्यायविशारदाः । आप्तो यथार्थवक्तेति पौरुषेयत्वसिद्धये ॥ वेदानां प्रोच्यते, तेन प्रामाण्यं परतो मतम् । पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः ॥ शाब्दबोधः फलं तत्र शक्तिधीस्सहकारिणी । आसत्तियोग्यताऽऽकाङ्क्षा तात्पर्यज्ञानमिष्यते ॥ कारणं, सन्निधानं तु पदस्यासत्तिरुच्यते । पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता ॥ यत्पदेन विना यस्यानुभावकता भवेत् । साऽऽकाङ्क्षा वक्तुरिच्छा तु तात्पर्यं परिकीर्तितम् ॥ इति न्यायविदां मार्गः वैदिकानां पुनस्त्वसौ । परस्परापेक्षितत्वमाकाङ्क्षा स्यात्पदार्थयोः ॥ तात्पर्यविषयार्थानां बाधाभावो हि योग्यता । पदजन्या पदार्थानामासत्तिः स्यादुपस्थितिः ॥ तत्तदर्थप्रतीतीच्छा तात्पर्यं वक्तृरवस्थिता । वेदेऽपीच्छासमाकारः व्यापारोऽभ्युपगम्यते ॥ शरीरवादे प्रागुक्ता तन्त्रवार्तिकपद्धतिः । तन्निर्णयाय मीमांसा न्यायनिर्णयलक्षणा ॥ लोके तु वक्तुरिच्छेयं ज्ञेया प्रकरणादिना । लौकिकोऽलौकिकश्चेति शब्दोऽतो द्विविधो मतः॥