भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 474, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 474

432 मानमेयरहस्यश्लोकवार्तिके तां लक्षणां केचिदाहुः बोध्यसंबन्धरूपतः । असतोऽपि हि शब्दोत्थज्ञानगोचरतेष्यते ॥ तथाऽगृहीतसंबन्धाः पदार्था एव सर्वशः । आगमार्थं बोधयन्तः बलीयांसो भवन्ति हि ॥ नियमस्मरणापेक्षाल्लिङ्गात्प्रबल आगमः । विशेषतश्च वेदस्य निर्दोषत्वाद्वलिष्ठता ॥ अव्युत्पन्नशब्दराशिः स्वस्वरूपं हि बोधयेत् । अतश्च देवताशब्दः स्वरूपे पर्यवस्यति ॥ 6 अभिधेयेन संबन्धात्सादृश्यात्समवायतः । वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ॥ भर्तृमित्रवचस्त्वेतत् अपरैष्षड्विधा मता । जहदादिविभेदेन त्रिविधा नव्यवैदिकैः ॥ 7 पदार्थबोधनं शब्दशक्तिजन्यत्वतः पदैः । पार्थसारथ्यादिबुधैः अभिधानमितीर्यते ॥ संस्कारोद्बोधनद्वारा पदार्थानां तु बोधनम् । तत्स्यात् स्मरणमेवेति चिदानन्दादयो विदुः ॥ पदार्था एव वाक्यार्थं पुनस्संसर्गलक्षणम् । बोधयेयुर्लक्षणया तात्पर्यानुपपत्तितः ॥ मीमांसाशास्त्रनिष्णात़ाः नव्याः प्राहुर्बुधोत्तमाः । तस्मान्नानापदार्थानुरक्तो वाक्यार्थ इष्यते ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 474, कुल 672 में से · BharatKosha