मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 478, कुल 672 में से
संदर्भ में पढ़ें436 मानमेयरहस्यश्लोकवार्तिके 6 अम्बाम्बेति यदा बालश्शिक्षमाणः प्रभाषते । अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः ॥ एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते ॥ नापभाषतवै न म्लेच्छतवै इति यद्यपि । निषेधो वर्ततेऽथापि प्रमादो धीमतामपि ॥ कल्पसूत्रस्मृतिग्रन्थमीमांसागृह्यकारिणः । शिष्टाः दृष्टाः प्रयुञ्जानाः अपशब्दाननेकंशः ॥ शब्दशास्त्रप्रवक्तारस्त्रयोऽपि मुनयः पुनः । शास्त्र एव स्खलन्तीति विवृतं तन्त्रवार्तिके ॥ अन्तो नास्त्यपशब्दानामतिहासपुराणयोः । मरणान्तो व्याधिरसौ यद्व्याकरणमुच्यते ॥ इति चौशनसाः प्राहुरिति प्राह बृहस्पतिः । दुष्टग्रहगृहीतो वा भीतो वा राजदण्डतः ॥ पितृभ्यामभिशस्तो वा कुर्याद्व्याकरणे श्रमम् । वृत्तिः सूत्रं तिलाः माषाः कपत्री कोद्रवौदनः ॥ अजडाय प्रदातव्यं जडीकरणमुत्तमम् । इत्थं शङ्कासंग्रहोऽथ समाधेरपि संग्रहः ॥ रूपान्तरेण देवास्ते विचरन्ति महीतले । ये व्याकरणसंस्कारपवित्रितमुखा नराः ॥