मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 477, कुल 672 में से
संदर्भ में पढ़ेंशब्दविभागः 435 3 नामाख्यातनिपातोपसर्गभेदैः चतुर्विधम् । पदं विभज्यते शास्त्रे सर्वस्मिन् पदवेदिभिः ॥ 4 प्रादयो ह्युपसर्गास्स्युः निपाताश्चादयो मताः । तिङन्तास्त्वाख्यातसंज्ञाः सुबन्ता नामसंज्ञिताः ॥ उपसर्गा निपाताश्च वाचका द्योतका इति । मतद्वयं, वाचकत्वं शक्तिस्स्यात्सामुदायिकी ॥ विशेषणं द्योतकत्वं तच्च शक्त्यपवादनम् । सर्वं सर्वार्थशक्तं चेदपवादो ह्यपेक्ष्यते ॥ तदा पदान्तरं तत्स्यात् अन्वाख्यानमनर्थकम् । उक्ते विशेषणं, किंचिदुच्यमानविशेषणम् ॥ तेन शक्त्यपवादोऽयं भवेदर्थापवादवत् । चादयो वाचकाः प्राद्या द्योतका इति तार्किकाः । सर्वेऽपि द्योतका एवेत्याहुश्शाब्दिककोविदाः । मीमांसकास्तु मध्यस्थाः चिन्तनश्रमभीरवः ॥ 5 नैयायिकविभागोऽपि किंचिदत्र निरूप्यते । प्रकृतिः प्रत्ययश्चेति निपातश्चेति स त्रिधा ॥ निरुक्ता प्रकृतिर्द्वेधा नामधातुविभेदतः । यत्प्रातिपदिकं प्रोक्तं तन्नाम्नो नातिरिच्यते ॥ रूढं च लक्षकं चैव योगरूढं च यौगिकम् । तच्चतुर्धा परैरूढयौगिकं मन्यतेऽधिकम् ॥