मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 476, कुल 672 में से
संदर्भ में पढ़ेंयत्स्यात्तद्वाचकश्शब्दः गुणवाचक उच्यते । तादृशो यस्साध्यधर्मः तद्वाची कर्मवाचकः ॥ एतत्त्रितयसंयुक्तं वस्तु द्रव्यमितीर्यते । तद्वाचको द्रव्यवाचीत्येवं प्राज्ञैरनूदितम् ॥ जातिस्सामान्यमित्याद्या जातिमात्रस्य वाचकाः। व्यक्तिस्स्वरूपमित्याद्या व्यक्तिमात्रस्य वाचकाः॥ गोघटाश्वादयो जातिविशिष्टव्यक्तिवाचकाः । गुणादिवाचकाश्शब्दाः द्रव्यपर्यन्तबोधकाः ॥ असौत्रोऽपि च मत्वर्थीयादिस्तद्गुणवाचिनः । निष्कर्षप्रतिरुद्धायाः शक्तेरुत्तम्भको मतः ॥ वैभवात्क्वचिदायातः भूरिकेवलदर्शनात् । नचेत्तेषामसाधुत्वप्रसङ्गो दुर्निवारणः ॥ गुणैकनियतास्तावद्गन्धरूपरसादयः । गन्धत्वाद्यवच्छिन्नगन्धादिगुणवाचिनः ॥ तेषां न द्रव्यपर्यन्ता वृत्तिः क्वचन दृश्यते । न गन्धः पद्ममित्यस्ति सामानाधिकरण्यधीः ॥ सामान्यतश्च शब्दानांमर्था अपि चतुर्विधाः । मुख्यो गौणो लाक्षणिकस्तात्पर्यार्थ इति श्रुताः॥ स्याद्वाचको लाक्षणिको व्यञ्जकश्चेति च त्रिधा । इतिचाप्यपरैरालंकारिकैः प्रविभज्यते ॥