मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 490, कुल 672 में से
संदर्भ में पढ़ें448 मानमेयरहस्यश्लोकवार्तिके इत्येताभिः कुत्सिताभिस्सिद्धिभिः वञ्चिताः परे । वैपरीत्यं सुप्रसिद्धमिह वैदिकदर्शने ॥ वञ्चनापटुभिः वेदविद्भिरैते प्रतारिताः । इति चेत, किं वञ्चयन्ति स्वात्मानमपि केवलम् ॥ यैश्च सर्वे पटुप्रज्ञाः लोका जाताः प्रतारिताः । प्रतारका इति कथं उन्नीतास्तेऽपि च त्वया ॥ लोकोत्तरपटुप्रज्ञो भवानेव महीतले । सर्वप्रतारकैरेतैरपि नैव प्रतार्यसे ॥ अनुष्ठानप्रवाहोऽयं स्यादेवान्धपरंपरा । इत्यसत्, तत्प्रमाणादेः बाधादीनामदर्शनात् ॥ धर्मबुद्धयैव निरुपाधिक एष परिग्रहः । इति त्वदुक्त्यैव सिद्धेः किमस्माभिरिहोच्यताम् ॥ अनादिनिधने चास्मिन् संप्रदाये चलत्यथ । प्रक्रियान्तरमाश्रित्य प्रतिच्छन्दप्रवर्तनात् ॥ प्रतारका भवन्तीति श्रुतिस्मृतिविनिश्चितम् । युक्तिमच्चैतदित्यत्र संक्षिप्ता दिक्प्रदर्शिता ॥ 4 तुल्ययोगक्षेमतया वेदवज्जगतोऽपिच । अकर्तृ ता स्यादिति चेत् न कुलालादिदर्शनात् ॥ नचात्र वर्णनित्यत्वं वेद नित्यत्वकारणम् । काव्यादिष्वपि तुल्यत्वात् किंत्त्वीदृक्क्रमयोगिता ॥ :