मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 491, कुल 672 में से
संदर्भ में पढ़ेंतत्र पुंयत्नानंघृत्वमास्त यद्यपि यः पुनः । उच्चारणे स्वातन्त्र्यस्याभावस्साऽपौरुषेयता ॥ 5 वेदतः पौरुषेयत्वशङ्का वेदेन शाम्यति । हेत्वन्तरसमुद्भूता हेत्वन्तरनिवारिता ॥ युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥ धर्ममूलं वेदमाहुः ग्रन्थराशिमकृत्रिमम् । तद्विदां स्मृतिशीले च साध्वाचारं मनःप्रियम् ॥ यावत्प्रभावाः श्रूयन्ते ऋष्याद्या वेदराशिषु । तादृशा एव सृज्यन्ते वेदान् दृष्ट्वा स्वयंभुवा ॥ अनधीत्यैव वेदानाभाविर्भावयितृत्वतः । तपसा प्राप्य संस्कारात्तत्सूक्तत्वादिसंभवः ॥ तपःप्रभावान्मन्त्राणां ऋषिदर्शनसंस्कृतेः । शक्तिराधीयते काचित् यथाऽस्माकमधीतितः ॥ अर्थावबोधकत्वं तु शब्दशक्त्याऽन्यशब्दवत् । ऋषिदर्शनतोऽधीतेरपि शक्त्यन्तरोद्भवः ॥ अपूर्वकार्यनिष्पत्तावुपकुर्यादिदं ततः । काठकादिसमाख्याया निमित्तं चेदमेववा ॥ प्रकृष्टं वा प्रवचनं तत्सिद्धा वेदनित्यता । मन्त्रब्राह्मणयोर्वेदनामधेयं च विश्रुतम् ॥ M.R. 57