भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

तत्र पुंयत्नानंघृत्वमास्त यद्यपि यः पुनः । उच्चारणे स्वातन्त्र्यस्याभावस्साऽपौरुषेयता ॥ 5 वेदतः पौरुषेयत्वशङ्का वेदेन शाम्यति । हेत्वन्तरसमुद्भूता हेत्वन्तरनिवारिता ॥ युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥ धर्ममूलं वेदमाहुः ग्रन्थराशिमकृत्रिमम् । तद्विदां स्मृतिशीले च साध्वाचारं मनःप्रियम् ॥ यावत्प्रभावाः श्रूयन्ते ऋष्याद्या वेदराशिषु । तादृशा एव सृज्यन्ते वेदान् दृष्ट्वा स्वयंभुवा ॥ अनधीत्यैव वेदानाभाविर्भावयितृत्वतः । तपसा प्राप्य संस्कारात्तत्सूक्तत्वादिसंभवः ॥ तपःप्रभावान्मन्त्राणां ऋषिदर्शनसंस्कृतेः । शक्तिराधीयते काचित् यथाऽस्माकमधीतितः ॥ अर्थावबोधकत्वं तु शब्दशक्त्याऽन्यशब्दवत् । ऋषिदर्शनतोऽधीतेरपि शक्त्यन्तरोद्भवः ॥ अपूर्वकार्यनिष्पत्तावुपकुर्यादिदं ततः । काठकादिसमाख्याया निमित्तं चेदमेववा ॥ प्रकृष्टं वा प्रवचनं तत्सिद्धा वेदनित्यता । मन्त्रब्राह्मणयोर्वेदनामधेयं च विश्रुतम् ॥ M.R. 57

450 मानमेयरहस्यश्लोकवार्तिके 6 हितानुशासनं वाक्यं विधिरत्र विवक्षितः । लिङ्वाच्योऽपूर्व इत्यत्र ख्यातो व्युत्पत्त्यसंभवः । विमर्शात्सिद्धिरितिचेत् विमर्शः स्मृतिरेव हि । अस्तु वा कार्य एवादौ व्युत्पत्तिः व्यवहारतः ॥ अन्वयव्यतिरेकाभ्यां शब्दशक्तिर्विविच्यते । प्रयुज्यन्ते सिद्धपराः वक्तृभिर्हि कथा यथा ॥ प्रतिष्ठा देशभेदश्च छागादिर्वा घृताञ्जनम् । यातनासाधनत्वं च गृह्यते विध्यपेक्षितम् ॥ प्रतीता देवताप्रीतिः अपूर्वमुपकल्प्यताम् । लिङो वाच्यतया द्वारं स्वरूपाद्वा किमन्यतः ॥ विग्रहो हविरादानं युगपत्कर्मसन्निधिः । प्रीतिः फलप्रदानं च देवतानां न विद्यते ॥ इति वादो भवेदर्थचार्वाकमतिमूलकः । अनचिद्देवतापक्षे शाब्दमार्गक्रमस्त्वयम् ॥ किमर्थं किं केन कथं वेति स्याद्धि चतुर्विधा । आकाङ्क्षा तत्रचाद्यायाः पूर्तिस्स्वर्गादिना मता। देवतां प्रीणयेदित्येतया शाम्यत्यनन्तरा । ज्योतिष्टोमेनेति नामधेयात्केनेति शाम्यति ॥ कथमित्यस्य शान्तिस्तु समानैवोभयोरपि । विशेषतश्च पुरुषः चोदनाशब्दसूचितः ॥

वेदवैलक्षण्यवादः 451

श्रुतिस्स्मृतिर्ममैवाज्ञा यस्तामुल्लङ्घ्य वर्तते । आज्ञाच्छेदी मम द्रोहीत्येवं भगवतोदितम् ॥ ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः॥ 7 श्रुतिमूलतयैवैताः स्मृतयो यान्ति मानताम् । श्रुत्यैव निर्णये किंवा स्मृतिभिश्चेति चेन्न तत् ॥ दुर्बोधा वैदिकाश्शब्दाः प्रकीर्णत्वाच्च ये खिलाः । तज्ज्ञैस्त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः॥ इति प्राह मरीच्याख्यः देवलस्य वचः पुनः । सत्यप्यस्मिन् धर्मशास्त्रे गृह्यापेक्षां प्रदर्शयेत् ॥ मन्वादयः प्रयोक्तारो धर्मशास्त्रस्य कीर्तिताः । तत्प्रयुक्तप्रयोक्तारः गृह्यकारास्तु मन्त्रतः ॥ वेदा अनन्तास्संकीर्णाः विकीर्णाश्च क्वचित्तथा । उत्सन्नाश्च कदाचित्स्युः मन्वाद्याः कृत्स्नवेदिनः ॥ 8 श्रुतिस्मृतिविरोधे तु विकल्पं केचिदूचिरे । भ्रमसंभवतः श्रुत्या स्मृतिबाधं परे विदुः ॥ विरोधे तत्त्वविषये बाध एव विवक्षितः । विकल्पासंभवाद्वस्तुष्विति विद्वद्विनिश्चितः ॥

452 मानमेयरहस्यश्लोकवार्तिके

स्मृतिद्वयविरोधे तु व्यवस्था स्यात्परिग्रहात् । मन्वादीनां स्मृतिष्वेव केचिच्छ्लोका अपस्मृतिः । इति शाबरसिद्धान्तः कुमारिलमतं त्विदम् । बुद्धागमः पाञ्चरात्रागमाद्यास्स्युरपस्मृतिः ॥ इति विज्ञायते तत्र प्रत्युक्तिरियमुच्यते । नच क्वचित् स्मृतेर्बाधे सर्वानार्श्वाससंभवः ॥ बाधकादर्शनाद्धेतुदोषक्लृप्तेरयोगतः । परिग्रहविशेषेण श्रुतिमूलत्वकल्पनात् ॥ विस्रम्भहेतुस्संवादः क्वचिद्वाह्यागमेऽस्त्यपि । भूयश्श्रुतिविरोधेन वैदिकैरपरिग्रहः ॥ 9 पाञ्चरात्रागमस्त्वेकायनवेदान्तमूलकः । श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत् ॥ वेदत्वं नात्र संदिग्धं यं वाकेष्विति च स्मृतेः । ऋग्वेदपाठे पठितं व्रतमेतत्सुदुश्चरम् ॥ इति सेश्वरमीमांसासंप्रदायस्य संग्रहः । असौ नातीव विच्छिन्नोऽनूद्यते च परैरपि ॥ इत्थं हि शतदूषण्यां तृतीये भङ्गे ईर्यते । सोऽनुवादो दैवविदः इति माण्डूक्यकारिका ॥ भवेद्वाऽप्यथवाऽन्यद्वा विपश्चिद्भिः विमृश्यताम् । विचारस्यावश्यकत्वं न्यायशुद्धौ समर्थितम् ॥

10 ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ इत्येतत्कोशसंत्यागाभिप्रायं नार्थगोचरम् । निष्पन्नयोगपुरुषविषयं वा विदुर्बुधाः ॥ शास्त्रज्ञानं बहुक्लेशं बुद्धेश्चलनकारणम् । उपदेशाद्धरिं बुध्वा विरमेत्सर्वकर्मसु ॥ इत्येतत्तीव्रसंयोगवतामेवाविपश्चिताम् । अलसानामास्तिकानां विस्रम्भायेति निर्णयः ॥ (92) शास्त्रवादः 1 चोदना चोपदेशश्च विध्युद्देशो विधिस्तथा । नियोगो वेद आदेशः शास्त्रं चैकार्थवाचिनः ॥ प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते ॥ शासनाच्छंसनाच्चैव शास्त्रमित्यभिधीयते । पुराणे इतिच प्राह श्रीपराशरमाधवः ॥ 2 सूत्रं तु त्रिविधं प्रायः पूर्वाचार्यैर्निरूपितम् । उपदेशात्मकं त्वाद्यं व्याख्यानं तदनन्तरम् ॥ उपपादनशास्त्रं स्यात्तृतीयं न्यायपूर्वकम् । अथ शब्दानुशासनमथ योगानुशासनम् ॥

454 मानमेयरहस्यश्लोकवार्तिके इत्याद्यारम्भकं शास्त्रमुपदेशात्मकं मतम् । धर्मं व्याख्यास्याम इति तथाऽथो यज्ञमित्यपि । तथाऽथातो दर्शपूर्णमासावित्यादि यत्पुनः । एवमाद्यारम्भशास्त्रं भवेद्व्याख्यानलक्षणम् ॥ अथातो धर्मजिज्ञासाऽथातो ब्रह्मेतिपूर्वकम् । जिज्ञासाघटितं शास्त्रं न्यायशास्त्रं प्रचक्षते ॥ यथोपदेशं च तथा यथामूलं यथामति । बोद्धव्यमिति भेदेन शास्त्रभेदः प्रवर्तते ॥ 3 पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ याज्ञवल्क्यस्मृतिस्त्वित्थं, तथैव ह्याश्वमेधिके । अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ॥ पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश । इतिच श्रूयते, तत्राप्यधिकं राणके यथा ॥ आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशास्त्रं तुरीयं स्यात् विद्या ह्यष्टादश स्मृताः । 4 विभजन्ते त्रिधा केचित् मन्त्रब्राह्मणमादिमम् । इतिहासपुराणं च द्वितीयं परिकीर्तितम् ॥ धर्मशास्त्रं तृतीयं स्याद्विषयाणां व्यवस्थया । यज्ञो मन्त्रब्राह्मणस्य विषयस्सर्वसम्मतः ॥

शास्त्रवादः 455 इतिहासपुराणस्य लोकवृत्तं हि गोचरः । धर्मशास्त्रे पुनर्लोकव्यवहारव्यवस्थितिः ॥ अपवर्गपरीक्षायामैकाश्रम्यस्य खण्डने । गौतमीयन्याभाष्ये एवं वात्स्यायनोऽब्रवीत् ॥ धर्मशास्त्रं तु सकलं पूर्वभागोपबृंहणम् । पुराणं चोपनिषदामिति केचिद्विविश्चते ॥ पुराणं धर्मशास्त्रं च सर्वं सर्वोपबृंहणम् । तत्स्मृत्यनवकाशेति बादरायणनिर्णयः ॥ 5 आन्वीक्षकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । विद्याश्चतस्र एवैता लोकसंस्थितिहेतवः ॥ आन्वीक्षकीत्यात्मविद्या धर्माधर्मौ त्रयीस्थितौ । अर्थानर्थौ च वार्तायां दण्डनीतौ नयानयौ ॥ इति कामन्दकी प्राहाथात्मविद्या विचार्यते । प्रदीपस्सर्वविद्यानामुपायस्सर्वकर्मणाम् ॥ आश्रयस्सर्वधर्माणां विद्योद्देशे प्रकीर्तिता । इत्युक्त्याऽऽन्वीक्षकी विद्यैवात्मविद्येति तन्मतम् ॥ एतमर्थं मनुरपि सप्तमे प्राह तद्यथा । त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् ॥ आन्वीक्षकीं चात्मविद्यां वार्तारम्भांश्च लोकतः । सत्यप्येवं मनोर्व्याख्याकाराणां हृदये पुनः ॥

456 मानमेयरहस्यश्लोकवार्तिके आन्वीक्षिक्या विभेदेन त्वात्माविद्या प्रतीयते । विस्तरस्यानवसराद्विमृशन्तु बुधास्त्विदम् ॥ 6 अस्त्यत्र कश्चिद्विशेषः विद्याधीरोदितो यथा । विद्यास्थानेषु धर्म्येषु गणितो न्यायविस्तरः ॥ स चाक्षपाद एवेति नियन्तुं नैव शक्यते । नच सर्वं सूत्रबद्धं विद्यास्थानमितीष्यते ॥ नचैक एव ह्येकस्य विद्यास्थानस्य सूत्रकृत् । नचास्ति राज्ञामाज्ञाऽत्र सूत्रकृदृषिरित्यपि ॥ सूत्रकृद्यदि सर्वज्ञः ऋषिसकल इष्यते । वार्तिकादेरनारम्भप्रसङ्गो दुर्निवारणः ॥ धर्मं व्याख्यातुकामस्य षट्पदार्थोपवर्णनम् । सागरं गन्तुकामस्य हिमवद्भ्रमनोपमम् ॥ कणान्वा भक्षयेत्कामं माहिषाणि दधीनि वा । युक्तियुक्तं तु गृह्णीमः नतु तद्वाक्यगौरवात् ॥ स्मृतिसूत्रप्रवाहोऽयमनादिर्धर्ममण्डले । यथालोकं यथावेदं लौकिके वैदिकेऽपि वा ॥ यो वक्ता स परिग्राह्यः प्राक्तनोऽद्यतनोऽपिवा । तदर्वाग्भिः तथाऽऽचार्यैः प्रमाणादिविचारणा ॥ प्रणिन्ये बहुधां तैस्तैः यथेष्टं मतमास्थितैः । इत्यादिः विस्तरो न्यायपरिशुद्धावुदीक्ष्यताम् ॥

7 उक्तानुक्तदिरुक्तादिचिन्ता यत्र प्रवर्तते । ग्रन्थं तं वार्तिकं प्राहुर्वार्तिकज्ञा मनीषिणः ॥ शास्त्रैकदेशसंबद्धं शास्त्रकार्यान्तरे स्थितम् । आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चितः ॥ एवं च सूत्रभाष्यादिग्रन्थानां लक्षणं पुनः । सर्वत्र विदितं तस्माद्दिङ्मात्रमिह सूचितम् ॥ संसारमोचकाः शाक्यभिक्षुनिर्ग्रन्थकादयः । सम्मता आगमाभासा इति वैदिकनिर्णयः ॥ (93) मीमांसावादः. 1 धर्मे प्रमीयमाणे तु वेदेन करणात्मना । इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥ मीमांसाशास्त्रसारार्थसंग्रहोऽतो विलिख्यते । दृश्यन्ते विबुधाः प्रायः हंसभ्रमरवृत्तयः ॥ मान्बधेत्यादिसूत्रेण जिज्ञासार्थे विवक्षिते । मानेस्सनि विचारोऽर्थः मीमांसापदबोधितः ॥ सच लाघवतर्काख्यः वेदवाक्यार्थगोचरः । परीक्षाशास्त्रमेवैतन्नानुशासनलक्षणम् ॥ तृतीयसूत्रे स्पष्टार्थपरीष्टिपदयोगतः । जिज्ञासापदसत्त्वार्थः व्याख्यात इति गम्यताम् ।

458 मानमेयरहस्यश्लोकवार्तिके न्यायवार्तिकतात्पर्यटीकावाक्यं निशम्यताम् । मीमांसासंज्ञकस्तर्कस्सर्वो वेदसमुद्भवः ॥ सोऽतो वेदः रुमाप्राप्तकाष्ठादिलवणात्मवत् । यः पूजितविचारोऽसौ मीमांसाशब्दितस्त्विति ॥ कालादनादेर्मीमांसा प्रवृत्ता लोकतः पृथक् । संजग्राह पुनः न्यायान् तादृशान् जैमिनिर्मुनिः ॥ नह्येकस्तूपसंहर्तुंमियतो न्यायसंचयान् । समर्थः पुरुषो लोक इत्युक्तं तन्त्रवार्तिके ॥ विचारात्पूर्वमेवात्र प्राप्तमध्ययनं विधेः । अतोऽनधीतवेदस्य विचारश्शास्त्रवारितः ॥ 2 स्वाध्यायविधिवाक्यार्थः प्रथमं प्रविभज्यते । प्रवृत्तं शास्त्रमेतद्धि तादृग्विधिनिबन्धनम् ॥ तदर्थपूर्वपक्षांशसिद्धान्तांशप्रकाशकम् । कारिकायुगलं ह्येतत्प्राच्यैर्विलिखितं बुधैः ॥ विनाऽपि विधिना दृष्टलाभान्न हि तदर्थता । कल्प्यस्तु विधिसामर्थ्यात् स्वर्गो विश्वजिदादिवत् लभ्यमाने फले दृष्टे नादृष्टफलकल्पना । विधेस्तु नियमार्थत्वान्नानर्थक्यं भविष्यति ॥ तत्रार्थकर्माध्ययनं सम्मतं सक्तुहोमवत् । भवेदध्यापनविधिप्रयुक्तं च स्वरूपतः ॥

४. मेय-भाग: परापर सामान्य, शक्ति, सादृश्य, संख्या व मोक्ष-मीमांसा उपसंहार

मीमांसावादः 4

विधेयं चोपनयनमङ्गमध्यापनस्य च । प्रभाकरस्याभिमतमेतदर्थचतुष्टयम् ॥ गुणकर्मत्वध्ययनमवघातादिवन्मतम् । नियमोऽत्र विधेयस्स्यात्प्रयुक्तं स्वविधेर्बलात् ॥ स्वस्योपनयनं चाङ्गमेवमर्थचतुष्टयम् । कुमारिलस्याभिमतं ज्ञानान्तत्वं समं द्वयोः ॥ तत्रौपनिषदानां तु मतं स्याद्भाट्टसम्मतम् । विशेषस्स्यादुभयतो ह्यक्षरग्रहणान्तता ॥ अलौकिकं चाहवनीयादिवद्गुरवो विदुः । आचार्यकं भट्टपादा लौकिकं तद्विजानते ॥ गुरोराचारमाश्रित्य वर्तन्तेऽन्तेनिवासिनः । यान्यस्माकमिति श्रुत्या तदेतदभिधीयते ॥ अध्यापयेदिति विधिप्रयुक्तेऽध्ययनक्रमे । अष्टवर्षादिनिर्देशात स्पष्टा शूद्रानधिक्रिया ॥ नियमस्य विधेयत्वेऽप्यधिकारो नियम्यते । उपनीतो हि विद्यार्थी विद्या हि पुमपेक्षिणी ॥ अन्यथाऽनुपपन्नो हि विधिस्यादग्निविद्ययोः । कल्पकः, क्लृप्तनिर्वाहे कल्पना गौरवाऽऽहता ॥ ३ चोदनालक्षणः कार्यं धर्मो वेदार्थ इत्यतः । वेदार्थः कार्यरूपस्स्यादिति व्याख्या गुरोर्मता

60 मानमेयरहस्यश्लोकवार्तिके प्रमाणं च स्वरूपं च धर्मस्यादौ निरूप्यते । श्रुत्यर्थाभ्यामिति व्याख्या भट्टपादस्य सम्मता ॥ मानाधीना मेयसिद्धिर्मानासिद्धिश्च लक्षणात् । तल्लक्षणप्रमाणाभ्यां वस्तुसिद्धिरितीर्यते ॥ द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते । तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता ॥ अतएवातिदेशेऽपि विवादोऽस्त्यर्थकार्ययोः । तस्य तत्त्वं चातिदेशपारायणनिरूपितम् ॥ अन्यत्र ह्यन्यदीयस्य देशोऽतीदेश उच्यते । अन्यस्मिन्नन्यताऽभावादित्यप्येष निरूपितः ॥ शास्त्रेऽस्मिन् लक्षणपदं प्रमाणाध्याययोर्मतम् । चोदनालक्षणः शेषलक्षणं चेति दर्शनात् ॥ किमाद्यपेक्षितैः पूर्णस्समर्थः प्रत्ययो विधौ । तेन प्रवर्तकं वाक्यं ग्रन्थेऽस्मिन् चोदनोच्यते ॥ चोदना चोपदेशश्च विध्युद्देशो विधिस्तथा । नियोगो वेद आदेशः शास्त्रं चैकार्थवाचिनः ॥ प्रवर्तेऽहमिति ज्ञानं येन शब्देन जन्यते । स चोदनोच्यते यद्वा प्रवर्तनफला मतिः ॥ यश्चोदनालक्षणस्स्यात्स धर्म इति योजना । धर्मस्वरूपतात्पर्यवचनव्यक्तिलक्षणा ॥

स चोदनालक्षणः स्याद्यो धर्म इति योजना। धर्मप्रमाणतात्पर्यवचनव्यक्तिरुच्यते ॥ तादृग्लक्षण एव स्याद्धर्म इत्थंविवक्षया। निराकरणमिष्टं स्याद्वेदाप्रामाण्यवादिनाम् ॥ धर्मे तु चोदनैव स्याल्लक्षणं त्वितिकल्पनात् । मानान्तरस्य व्यावृत्तिस्तथा बुद्धागमस्य च ॥ चोदनालक्षणो ह्यर्थो धर्म एवेति योजना । वेदार्थस्य विचारेऽस्मिन् शास्त्रे धर्मं प्रसञ्जयेत् । 4 इत्थं ह्युपोद्घातवादः वृत्तो मुख्यार्थसंग्रहात् । वर्तिष्यते तर्कपादवादोद्देशार्थसंग्रहः ॥ नित्ये शब्दार्थसंबन्धे तत्प्रामाण्यव्यवस्थितिः । इति शब्दार्थसंबन्धवादे नित्यत्वसाधनम् ॥ भवेद्बुद्धस्मृतिरपि प्रमाणमिति शङ्कया । बाधिता स्मृतिमात्रस्य स्मृतिवादे प्रमाणता ॥ सर्वज्ञवादे सार्वज्ञ्यं न कस्यापीति साध्यते । धर्मे बुद्धादियोगीन्द्रप्रत्यक्षत्वनिवृत्तये ॥ स्वतः प्रामाण्यवादोऽपि वेदप्रामाण्यसिद्धये । प्रामाण्यं कारणगुणसंवादार्थक्रियादिभिः ॥ अनपोदितमेवार्थतथात्वं विषयाश्रितम् । तत्स्वतो गृह्यत इति विषयीकरणं हि तत् ॥

462 मानमेयरहस्यश्लोकवार्तिके अर्थान्यथात्वमितरत् परतस्तद्धि गृह्यते । हेतुदोषादिसंवादबाधकप्रत्ययादितः ॥ निरालम्बनवादो यश्शून्यवादस्य चाङ्कुरः । निराकृतो यतो ह्यर्थसद्भावे धर्मचिन्तना ॥ पदस्याथ पदार्थस्य वाक्यवाक्यार्थयोरपि । सत्यत्वे धर्मचिन्ताऽतः स्फोटवादो निराकृतः ॥ जातेराकृतिवादे तु पदार्थत्वव्यवस्थितौ । अनित्यव्यक्तिसङ्गत्या नाप्रामाण्यप्रसञ्जनम् ॥ अपोहरूपा जातिश्चेत्सा भवेत्तुच्छलक्षणा । अतो निराकृतोऽपोहवादो वस्तुत्वसिद्धये ॥ प्रपञ्चः परमाणूनां पुञ्जश्चेत्स्यादतीन्द्रियः । सङ्गतिग्रहणासिद्ध्या वनवादो निराकृतः ॥ वेदाप्रामाण्यशङ्का स्यात्संकेतस्सङ्गतिर्यदि । तन्निरीश्वरवादोऽतः संबन्धाक्षेपदूषणे ॥ अपरोक्षविरुद्धेति शङ्का चित्रादिचोदना । चित्राक्षेपपरीहारे यथावद्विनिवारिता ॥ यज्ञायुध्यादिवत्स्वर्गगमनं त्वसमञ्जसम् । इतिशङ्काव्यवच्छित्यै चात्मवादोऽवतारितः ॥ स्याद्यदा क्षणिकश्शब्दः न शक्तोऽर्थावधारणे । निर्मूला वेदधीस्तस्मादुदिता वेदनित्यता ॥

मीमांसावादः 463 धर्मसंस्थापनायैव भावनार्थव्यवस्थया । प्रतिभावाक्यवाक्यार्थवादाद्या विनिवारिताः ॥ वेदस्यापौरुषेयत्वं स्थापयित्वा परिष्कृता । चोदनालक्षणो धर्म इति सिद्धान्तपद्धतिः ॥ 5 वृत्तिकारमतं चापि भाष्ये बहुलमुज्झितम् । भाष्यकारमतं चापि वार्तिके प्रायशस्तथा ॥ दूषितं चापि बहुशः प्रभाकरगुरोर्मतम् । भट्टपादस्य सिद्धान्ताः राणकेऽपि प्रदूषिताः ॥ राणके मातुलसुतापरिणीत्यादिसाधनम् । शास्त्रदीपप्रकाशे तु शङ्करेण प्रदूषितम् ॥ सोमेश्वरो ह्यन्यथयत् यद्वार्तिककृतां मतम् । तदुद्धूष्य पुनः सोऽहं प्रकृतिं स्वामथानयम् ॥ इतिबालप्रकाशोक्तिश्शाङ्करी परिदृश्यते । तस्माद्युक्तिप्रधानेयं मीमांसेत्यवधार्यताम् ॥ युक्त्यैव ह्यागमस्यापि प्रामाण्यादि प्रसाध्यते । युक्तिशास्त्रं न्यायशास्त्रं मानशास्त्रमिदं स्थितम् । सर्वत्र सूत्रकर्त्तारस्सर्वज्ञाः ऋषयस्त्विति । न निर्बन्धो वार्तिकादेरनारम्भप्रसङ्गतः ॥ व्युत्पाद्यन्ते सहस्रं हि न्यायाश्शास्त्रे यथातथम् । तत्तन्न्यायावगृहीतोऽर्थः चोदनालक्षणो मतः ॥

464 मानमेयरहस्यश्लोकवार्तिके इत्थं संक्षेपतस्तर्कपादवादार्थसंग्रहः । कृतोऽथाध्यायसारांशोद्धारः सम्यक् वितन्यते ॥ (94) अध्यायार्थसंग्रहः 1 धर्मधीर्मानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः । सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः ॥ अमानस्य निरूप्यत्वायोगात्प्राथम्ययोगिना । प्रमाणलक्षणेनात्राभावि द्वादशलक्षणे ॥ वेदार्थभेदाभावे स्यादङ्गत्वादिरयुक्तिमान् । शास्त्रार्थभेदचिन्ताऽथ शब्दभेदादिमानतः ॥ सिद्धे भेदे शेषशेषिभावबोधनलक्षणम् । श्रुतिलिङ्गादिमानेन प्रवृत्तं शेषलक्षणम् ॥ प्रावर्तिष्ठाथ जिज्ञासा शेषाणामेव शेषिभिः । प्रयोज्यत्वाय तुर्येऽस्मिन् क्रत्वर्थपुरुषार्थयोः ॥ प्रयुक्तेषु पदार्थेषु श्रुत्यर्थादिप्रमाणतः । अनुक्रान्तः पञ्चमे चाव्यवधानात्मकः क्रमः ॥ सक्रमे चापि शास्त्रार्थे स्थापितेऽथ निरूपितः । तत्प्रयोक्ता चोपदेशषट्केऽस्मिन् षष्ठलक्षणे ॥ 2 अथोपदिष्टे प्रकृतिविचारे विकृतौ पुनः । सामान्यतोऽतिदेशोऽत्र सप्तमे स्थापयिष्यते ॥

विशेषतोऽतिदेशोऽथ प्रावर्तिष्टास्य कर्मणः । इदं प्रकृतिरित्यादिनिर्णयोऽष्टमलक्षणे ॥ सामसंस्कारमन्त्राणामूहः प्रकृतिगामिनाम् । विकृतावन्धथाकृत्वा संबन्धो नवमे मतः ॥ प्रत्याम्नान द्वारलोप पर्युदासनिषेधतः । विकृतौ प्राकृताङ्गानां निवृत्तिर्बाधलक्षणे ॥ तन्त्रं त्वनेकोद्देशेनानुष्ठानं सकृदिष्यते । अन्यार्थानुष्ठितेनान्यस्योपकारः प्रसञ्जनम् ॥ एकादशद्वादशयोः प्रमेयार्थाविमौ मतौ । कालसंख्यामन्त्ररूपनिमित्तफलकर्तृभिः ॥ सकृद्विशेषाग्रहणेऽनुष्ठानं तन्त्रमित्यपि । सप्तस्वेकविधेनापि विशेषग्रहणे सति ॥ सकृदेव ह्यनुष्ठानं प्रसङ्ग इति वोच्यते । एषोऽतिदेशषट्कार्थः प्रत्यध्यायं निरूपितः ॥ (95) वेदानिरुक्तिवादः 1 मन्त्रब्राह्मणयोर्वेदनामधेयमिति स्मृतम् । कर्तव्यार्थस्मारकत्वं मन्त्रलक्षणमुच्यते ॥ परप्रत्यायनार्थास्तु मन्त्रा निगदसंज्ञिताः । विधायकपदव्यूहः ब्राह्मणं परिकीर्त्यते ॥

466 मानमेयरहस्यश्लोकवार्तिके हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः । परक्रिया पुराकल्पः व्यवधारणकल्पना ॥ उपमानं दशैते तु विधयो ब्राह्मणस्य हि । 2 इति प्राचां विभागस्स्यादर्वाचामथचोच्यते । धर्मः प्रयोजनयुतो ह्यर्थस्स्याद्वेदबोधितः । सर्वस्यापिच वेदस्य धर्मे तात्पर्यमिष्यते ॥ विधिर्मन्त्रो नामधेयः निषेधश्च ततःपरः । अर्थवाद इति स्पष्टः वेदराशिर्हि पञ्चधा ॥ अज्ञातार्थज्ञापको यो वेदराशिर्विधिर्मतः । विध्यर्थवादमन्त्राश्च स्मृत्याचारौ च नाम च ॥ वाक्यशेषश्च सामर्थ्यं धर्ममानमितीरितम् । तत्र कर्मोत्पत्तिवाक्यं फलवाक्यं गुणश्रुतिः ॥ फलाय गुणवाक्यं च वाक्यं सगुणकर्मणः । फलवद्गुणवाक्यं चेत्येवं वाक्यं हि षड्विधम् ॥ आद्यो धात्वर्थमात्रस्य विधिरित्युच्यते बुधैः । अन्योद्देशेन धात्वर्थविधिस्तु स्यादनन्तरः ॥ तथा धात्वर्थमुद्दिश्य तृतीयोऽन्यविधिर्मतः । अन्योद्देशेनान्यविधिः चतुर्थ इति गीयते ॥ पञ्चमो गुणसंयुक्तधात्वर्थविधिरुच्यते । अन्योद्देशेन षष्ठस्स्याद्विशिष्टविधिरेवचेत् ॥

वेदनिरुक्तिवादः 46 एवं विधिप्रकारस्स्यात् षड्विधोऽर्थविभेदतः । उत्तरोत्तरतः पूर्वपूर्वं लघ्विति निर्णयः ॥ विधिश्चतुर्विध इति विभक्तः प्रायशो बुधैः । 3 उत्पत्तेर्विनियोगस्य तत्प्रयोगाधिकारयोः ॥ कर्मस्वरूपमात्रस्य बोधको विधिरादिमः । कर्मस्वरूपनिष्ठा या त्वज्ञातज्ञाप्यतात्मिका ॥ विधेयता स्यात्तच्छालिबोधस्य जनको ह्यसौ । अङ्गप्रधानसंबन्धबोधकस्स्यादनन्तरः ॥ प्रयोगप्राशुभावस्य तृतीयो बोधको मतः । कर्मजन्यफलस्वाम्यबोधकोऽधिकृतेर्विधिः ॥ एवंविधविभागस्य निदानमवधार्यताम् । उत्पत्तिविधिराद्यो यः स द्वितीये विचार्यते ॥ विनियोगविधिस्त्वन्यः यस्तृतीये विचार्यते । चतुर्थे पञ्चमे चैव प्रयोगविधिचिन्तनम् ॥ अधिकारविधिस्त्वन्यः यष्षष्ठाध्यायगोचरः । एवं प्रमेयवैविध्याच्चातुर्विध्यं प्रकल्पितम् ॥ चतुष्टयेऽपि चैकस्मिन् क्वचित्किंचिद्विवक्षितम् । एवं द्वयं त्रयं वापि क्वचिच्चापि चतुष्टयम् ॥ प्रवर्तनालक्षणस्य विधेस्त्रेधा विधेयता । यागत्वरूपेणाद्या स्यादिष्टहेतुतयाऽपरा ॥

आकाङ्क्षाक्रमयोगेन त्रयस्ते क्रमयोगिनः ॥ शब्दान्तराभ्याससंख्यानामधेयगुणैस्सह । अन्यत्प्रकरणं चेति प्रमाणं कर्मभेदकम् ॥ कालो देशो निमित्तं च फलं संस्कार्यमेवच । सहकार्यनुपादेयपञ्चकं प्रक्रियान्तरे ॥ 4 परोद्देशप्रवृत्तस्य नरस्य कृतिकारकम् । अङ्गं स्याद्द्रव्यजात्यादिसिद्धोऽप्यङ्गं ततो भवेत् इतिकर्तव्यत्वता तु तादृक्पुंकृतिसाध्यता । सा द्विधा संनिपत्यारादुपकारकभेदतः ॥ विधीयमानव्रीह्यादिद्रव्याद्युद्दिश्य या क्रिया । तत्संनिपत्योपकारकाङ्गं सर्वार्थमेव तत् ॥ अथवाऽङ्गिस्वरूपस्य निष्पादकमितीर्यते । द्रव्याद्यनुद्दिश्य यत्स्यात्तदारादुपकारकम् ॥ अदृष्टार्थं फलापूर्वोत्पत्तावेवोपयुज्यते । अथवाोत्पत्त्यपूर्वीयशक्तिसंपादकं हि तत् ॥ 5 कर्म द्विधा ह्यर्थकर्म गुणकर्मेति भेदतः । अर्थकर्म भवेदात्मगतापूर्वस्य कारणम् ॥ परं संस्कारजनकं तच्च द्विविधमिष्यते । यथोपयुक्तोपयोक्ष्यमाणसंस्कारभेदतः ॥