मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 504, कुल 672 में से
संदर्भ में पढ़ें462 मानमेयरहस्यश्लोकवार्तिके अर्थान्यथात्वमितरत् परतस्तद्धि गृह्यते । हेतुदोषादिसंवादबाधकप्रत्ययादितः ॥ निरालम्बनवादो यश्शून्यवादस्य चाङ्कुरः । निराकृतो यतो ह्यर्थसद्भावे धर्मचिन्तना ॥ पदस्याथ पदार्थस्य वाक्यवाक्यार्थयोरपि । सत्यत्वे धर्मचिन्ताऽतः स्फोटवादो निराकृतः ॥ जातेराकृतिवादे तु पदार्थत्वव्यवस्थितौ । अनित्यव्यक्तिसङ्गत्या नाप्रामाण्यप्रसञ्जनम् ॥ अपोहरूपा जातिश्चेत्सा भवेत्तुच्छलक्षणा । अतो निराकृतोऽपोहवादो वस्तुत्वसिद्धये ॥ प्रपञ्चः परमाणूनां पुञ्जश्चेत्स्यादतीन्द्रियः । सङ्गतिग्रहणासिद्ध्या वनवादो निराकृतः ॥ वेदाप्रामाण्यशङ्का स्यात्संकेतस्सङ्गतिर्यदि । तन्निरीश्वरवादोऽतः संबन्धाक्षेपदूषणे ॥ अपरोक्षविरुद्धेति शङ्का चित्रादिचोदना । चित्राक्षेपपरीहारे यथावद्विनिवारिता ॥ यज्ञायुध्यादिवत्स्वर्गगमनं त्वसमञ्जसम् । इतिशङ्काव्यवच्छित्यै चात्मवादोऽवतारितः ॥ स्याद्यदा क्षणिकश्शब्दः न शक्तोऽर्थावधारणे । निर्मूला वेदधीस्तस्मादुदिता वेदनित्यता ॥