मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 503, कुल 672 में से
संदर्भ में पढ़ेंस चोदनालक्षणः स्याद्यो धर्म इति योजना। धर्मप्रमाणतात्पर्यवचनव्यक्तिरुच्यते ॥ तादृग्लक्षण एव स्याद्धर्म इत्थंविवक्षया। निराकरणमिष्टं स्याद्वेदाप्रामाण्यवादिनाम् ॥ धर्मे तु चोदनैव स्याल्लक्षणं त्वितिकल्पनात् । मानान्तरस्य व्यावृत्तिस्तथा बुद्धागमस्य च ॥ चोदनालक्षणो ह्यर्थो धर्म एवेति योजना । वेदार्थस्य विचारेऽस्मिन् शास्त्रे धर्मं प्रसञ्जयेत् । 4 इत्थं ह्युपोद्घातवादः वृत्तो मुख्यार्थसंग्रहात् । वर्तिष्यते तर्कपादवादोद्देशार्थसंग्रहः ॥ नित्ये शब्दार्थसंबन्धे तत्प्रामाण्यव्यवस्थितिः । इति शब्दार्थसंबन्धवादे नित्यत्वसाधनम् ॥ भवेद्बुद्धस्मृतिरपि प्रमाणमिति शङ्कया । बाधिता स्मृतिमात्रस्य स्मृतिवादे प्रमाणता ॥ सर्वज्ञवादे सार्वज्ञ्यं न कस्यापीति साध्यते । धर्मे बुद्धादियोगीन्द्रप्रत्यक्षत्वनिवृत्तये ॥ स्वतः प्रामाण्यवादोऽपि वेदप्रामाण्यसिद्धये । प्रामाण्यं कारणगुणसंवादार्थक्रियादिभिः ॥ अनपोदितमेवार्थतथात्वं विषयाश्रितम् । तत्स्वतो गृह्यत इति विषयीकरणं हि तत् ॥